ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
गि॒रा यदी॒ सब॑न्धव॒: पञ्च॒ व्राता॑ अप॒स्यव॑: । प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ॥
स्वर सहित पद पाठगि॒रा । यदि॑ । सऽब॑न्धवः । पञ्च॑ । व्राताः॑ । अ॒प॒स्यवः॑ । प॒रि॒ऽकृ॒ण्वन्ति॑ । ध॒र्ण॒सिम् ॥
स्वर रहित मन्त्र
गिरा यदी सबन्धव: पञ्च व्राता अपस्यव: । परिष्कृण्वन्ति धर्णसिम् ॥
स्वर रहित पद पाठगिरा । यदि । सऽबन्धवः । पञ्च । व्राताः । अपस्यवः । परिऽकृण्वन्ति । धर्णसिम् ॥ ९.१४.२
ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 3; मन्त्र » 2
पदार्थः -
(पञ्च व्राताः) पञ्च ज्ञानेन्द्रियाणि (सबन्धवः) कर्मेन्द्रियसहिताः (यदि अपस्यवः) यदा ईश्वरपराणि भवन्ति तदा (गिरा) परमात्मस्तुत्या (धर्णसिम्) इमां पृथिवीं (परिष्कृण्वन्ति) भूषयन्ति ॥२॥