ऋग्वेद - मण्डल 9/ सूक्त 17/ मन्त्र 8
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः । चारु॑ॠ॒ताय॑ पी॒तये॑ ॥
स्वर सहित पद पाठमधोः॑ । धारा॑म् । अनु॑ । क्ष॒र॒ । ती॒व्रः । स॒धऽस्थ॑म् । आ । अ॒स॒दः॒ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥
स्वर रहित मन्त्र
मधोर्धारामनु क्षर तीव्रः सधस्थमासदः । चारुॠताय पीतये ॥
स्वर रहित पद पाठमधोः । धाराम् । अनु । क्षर । तीव्रः । सधऽस्थम् । आ । असदः । चारुः । ऋताय । पीतये ॥ ९.१७.८
ऋग्वेद - मण्डल » 9; सूक्त » 17; मन्त्र » 8
अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 8
अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 8
पदार्थः -
हे परमात्मन् ! भवानस्मिन्मम यज्ञे (मधोः धाराम् अनुक्षर) प्रेमधारां स्यन्दयतु (तीव्रः) यतो भवान् वेगवान् तथा (चारुः) दर्शनीयश्चास्ति (ऋताय पीतये) सत्यप्राप्तये (सधस्थम् आसदः) यज्ञस्थं मां स्वीकरोतु ॥८॥ इति सप्तदशं सूक्तं सप्तमो वर्गश्च समाप्तः ॥