ऋग्वेद - मण्डल 9/ सूक्त 90/ मन्त्र 2
अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामा॑ङ्गू॒षाणा॑मवावशन्त॒ वाणी॑: । वना॒ वसा॑नो॒ वरु॑णो॒ न सिन्धू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥
स्वर सहित पद पाठअ॒भि । त्रि॒ऽपृ॒ष्ठम् । वृष॑णम् । व॒यः॒ऽधाम् । आ॒ङ्गू॒षाणा॑म् । अ॒वा॒व॒श॒न्त॒ । वाणीः॑ । वना॑ । वसा॑नः । वरु॑णः । न । सिन्धू॑न् । वि । र॒त्न॒ऽधाः । द॒य॒ते॒ । वार्या॑णि ॥
स्वर रहित मन्त्र
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणी: । वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि ॥
स्वर रहित पद पाठअभि । त्रिऽपृष्ठम् । वृषणम् । वयःऽधाम् । आङ्गूषाणाम् । अवावशन्त । वाणीः । वना । वसानः । वरुणः । न । सिन्धून् । वि । रत्नऽधाः । दयते । वार्याणि ॥ ९.९०.२
ऋग्वेद - मण्डल » 9; सूक्त » 90; मन्त्र » 2
अष्टक » 7; अध्याय » 3; वर्ग » 26; मन्त्र » 2
अष्टक » 7; अध्याय » 3; वर्ग » 26; मन्त्र » 2
पदार्थः -
(त्रिपृष्ठं) त्रियज्ञवद् ब्रह्मचर्य्यं सम्पादयन् (वृषणं) बलशीलकर्म्मयोगिन उपदेशाय त्वं (वयोधां) बलधारकः (आङ्गूषाणां) बलप्रदवाण्याः प्रयोजकश्चास्ति। एवं स्तोतृवाण्यां (अवावशन्त) निवसन् त्वं (वना, वसानः) सर्वप्रकाराः सूक्ष्मशक्तीर्धारयन् (वरुणः) सर्वान् स्वशक्त्याऽऽच्छादयन् (सिन्धून्, न) समुद्रतुल्यः (वि, रत्नधाः) अनेकविधरत्नानि धारयन् त्वं (वार्य्याणि) उत्तमधनानि (दयते) कर्म्मयोगिभ्यो ददासि ॥२॥