ऋग्वेद - मण्डल 9/ सूक्त 97/ मन्त्र 1
अ॒स्य प्रे॒षा हे॒मना॑ पू॒यमा॑नो दे॒वो दे॒वेभि॒: सम॑पृक्त॒ रस॑म् । सु॒तः प॒वित्रं॒ पर्ये॑ति॒ रेभ॑न्मि॒तेव॒ सद्म॑ पशु॒मान्ति॒ होता॑ ॥
स्वर सहित पद पाठअ॒स्य । प्रे॒षा । हे॒मना॑ । पू॒यमा॑नः । दे॒वः । दे॒वेभिः॑ । सम् । अ॒पृ॒क्त॒ । रस॑म् । सु॒तः । प॒वित्र॑म् । परि॑ । ए॒ति॒ । रेभ॑न् । मि॒ताऽइव । सद्म॑ । प॒शु॒ऽमन्ति॑ । होता॑ ॥
स्वर रहित मन्त्र
अस्य प्रेषा हेमना पूयमानो देवो देवेभि: समपृक्त रसम् । सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता ॥
स्वर रहित पद पाठअस्य । प्रेषा । हेमना । पूयमानः । देवः । देवेभिः । सम् । अपृक्त । रसम् । सुतः । पवित्रम् । परि । एति । रेभन् । मिताऽइव । सद्म । पशुऽमन्ति । होता ॥ ९.९७.१
ऋग्वेद - मण्डल » 9; सूक्त » 97; मन्त्र » 1
अष्टक » 7; अध्याय » 4; वर्ग » 11; मन्त्र » 1
अष्टक » 7; अध्याय » 4; वर्ग » 11; मन्त्र » 1
विषयः - अथ विदुषां गुणा वर्ण्यन्ते।
पदार्थः -
(सुतः) विद्यया संस्कृतो विद्वान् (रेभन्) शब्दं कुर्वन् (पवित्रं, परि एति) पवित्रतां लभते यथा (पशुमन्ति) यज्ञगृहं (मिता, इव, सद्म) ज्ञानस्थानं नियमीपुरुष इव (होता) यज्ञकर्ता प्राप्नोति (अस्य, प्रेषा) उक्तविदुषो जिज्ञासुः पुरुषः (हेमना, पूयमानः) सुवर्णादिभूषणेन पवित्रः सन् (देवेभिः, सम्पृक्तः) विद्वद्भिः संगतः (देवः) दिव्यभाववान् सन् (रसं) ब्रह्मानन्दं प्राप्नोति ॥१॥