Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1229
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - जगती
स्वरः - निषादः
काण्ड नाम -
8
शू꣢रो꣣ न꣡ ध꣢त्त꣣ आ꣡यु꣢धा꣣ गभस्त्योः꣣ स्वाः꣢३ सि꣡षा꣢सन्रथि꣣रो꣡ गवि꣢꣯ष्टिषु । इ꣡न्द्र꣢स्य꣣ शु꣡ष्म꣢मी꣣र꣡य꣢न्नप꣣स्यु꣢भि꣣रि꣡न्दु꣢र्हिन्वा꣣नो꣡ अ꣢ज्यते मनी꣣षि꣡भिः꣢ ॥१२२९॥
स्वर सहित पद पाठशू꣡रः꣢꣯ । न । ध꣣त्ते । आ꣡यु꣢꣯धा । ग꣡भ꣢꣯स्त्योः । स्वाऽ३रि꣡ति꣢ । सि꣡षा꣢꣯सन् । र꣣थिरः꣢ । ग꣡वि꣢꣯ष्टिषु । गोइ꣣ष्टिषु । इ꣡न्द्र꣢꣯स्य । शु꣡ष्म꣢꣯म् । ई꣣र꣡य꣢न् । अ꣣पस्यु꣡भिः꣢ । इ꣡न्दुः꣢꣯ । हि꣣न्वानः꣢ । अ꣣ज्यते । मनीषि꣡भिः꣢ ॥१२२९॥
स्वर रहित मन्त्र
शूरो न धत्त आयुधा गभस्त्योः स्वाः३ सिषासन्रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥१२२९॥
स्वर रहित पद पाठ
शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्वाऽ३रिति । सिषासन् । रथिरः । गविष्टिषु । गोइष्टिषु । इन्द्रस्य । शुष्मम् । ईरयन् । अपस्युभिः । इन्दुः । हिन्वानः । अज्यते । मनीषिभिः ॥१२२९॥
सामवेद - मन्त्र संख्या : 1229
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
પદાર્થ : (गभस्त्योः शूरः न आयुधा धत्ते) જેમ શૂરવીર પરાક્રમી હાથોમાં હથિયાર ધારણ કરે છે, તેમ (रथिरः इन्दुः स्वः गविष्टिषु सिषासन्) વિશ્વરથના સ્વામી પરમાત્મા સ્તુતિ વાણીઓની ઇષ્ટિ-અધ્યાત્મ યજ્ઞ જેનો છે, તે ઉપાસકો માટે મોક્ષાનંદ આપવાની ઇચ્છા રાખીને (इन्द्रस्य शुष्मन् ईयरन्) ઉપાસક આત્માનાં બળને પ્રેરિત કરીને (अपस्युभिः मनीषिभिः) અધ્યાત્મકર્મ યોગાભ્યાસ ચાહનાર ચિંતકો ઉપાસકોના દ્વારા (हिन्वानः अज्यते) પ્રેરિત થઈને સાક્ષાત્ થાય છે. (૨)