ऋग्वेद - मण्डल 10/ सूक्त 91/ मन्त्र 15
ऋषिः - अरुणो वैतहव्यः
देवता - अग्निः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोम॑: । वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त॑म् ॥
स्वर सहित पद पाठअहा॑वि । अ॒ग्ने॒ । ह॒विः । आ॒स्ये॑ । ते॒ । स्रु॒चिऽइ॑व । घृ॒तम् । च॒म्वि॑ऽइव । सोमः॑ । वा॒ज॒ऽसनि॑म् । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् । प्र॒ऽश॒स्तम् । धे॒हि॒ । य॒शस॑म् । बृ॒हन्त॑म् ॥
स्वर रहित मन्त्र
अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोम: । वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
स्वर रहित पद पाठअहावि । अग्ने । हविः । आस्ये । ते । स्रुचिऽइव । घृतम् । चम्विऽइव । सोमः । वाजऽसनिम् । रयिम् । अस्मे इति । सुऽवीरम् । प्रऽशस्तम् । धेहि । यशसम् । बृहन्तम् ॥ १०.९१.१५
ऋग्वेद - मण्डल » 10; सूक्त » 91; मन्त्र » 15
अष्टक » 8; अध्याय » 4; वर्ग » 22; मन्त्र » 5
अष्टक » 8; अध्याय » 4; वर्ग » 22; मन्त्र » 5
पदार्थ -
(अग्ने) हे अग्रणायक परमात्मन् ! (ते) तेरी प्राप्ति के लिए (हविः-आस्ये-अहावि) अपने आत्मा को तेरे व्याप्तिरूप मुख में देता हूँ-समर्पित करता हूँ (स्रुचि-इव-घृतम्) जैसे स्रुवा में घृत रखा जाता है (चम्वि-इव सोमः) जैसे चमस-पात्र में सोमरस रखा जाता है (अस्मे) हमारे लिए (वाजसनिम्) अमृतान्नभोग प्राप्त करनेवाले-(सुवीरम्) उत्तम प्राणोंवाले (प्रशस्तम्) श्रेष्ठ (यशसम्) यशस्वी (बृहन्तम्) महान् (रयिं धेहि) आत्मपोष को-शान्ति संतोष को धारण कराए ॥१५॥
भावार्थ - परमात्मा के व्याप्त स्वरूप में अपने आत्मा को समर्पित कर देवे, तो वह परमात्मा उत्तम जीवन यशस्वी सुख शान्ति संतोषरूप स्वात्मस्वरूप को हमारे अन्दर रख देता है ॥१५॥
इस भाष्य को एडिट करें