ऋग्वेद - मण्डल 10/ सूक्त 114/ मन्त्र 2
ऋषिः - सध्रिर्वैरुपो धर्मो वा तापसः
देवता - विश्वेदेवा:
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
ति॒स्रो दे॒ष्ट्राय॒ निॠ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः । तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥
स्वर सहित पद पाठति॒स्रः । दे॒ष्ट्राय॑ । निःऽऋ॑तीः । उप॑ । आ॒स॒ते॒ । दी॒र्घ॒ऽश्रुतः॑ । वि । हि । जा॒नन्ति॑ । वह्न॑यः । तासा॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । नि॒ऽदान॑म् । परे॑षु । याः । गुह्ये॑षु । व्र॒तेषु॑ ॥
स्वर रहित मन्त्र
तिस्रो देष्ट्राय निॠतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः । तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥
स्वर रहित पद पाठतिस्रः । देष्ट्राय । निःऽऋतीः । उप । आसते । दीर्घऽश्रुतः । वि । हि । जानन्ति । वह्नयः । तासाम् । नि । चिक्युः । कवयः । निऽदानम् । परेषु । याः । गुह्येषु । व्रतेषु ॥ १०.११४.२
ऋग्वेद - मण्डल » 10; सूक्त » 114; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 16; मन्त्र » 2
अष्टक » 8; अध्याय » 6; वर्ग » 16; मन्त्र » 2
विषय - गुरु जनों से ज्ञानोपार्जन का प्रकार।
भावार्थ -
(दीर्घ-श्रुतः) दीर्घ काल तक वेदों के ज्ञान का श्रवण करने वाले और (वह्नयः) ज्ञान के धारक विद्वान् जन (देष्ट्राय) सर्वसामान्य जनों को उपदेश करने के लिये ही (तिस्रः) तीनों (निः-ऋतीः) निःशेष सत्य ज्ञान से पूर्ण वेदों को (उप आसते) गुरु या प्रभु के समीप रह कर उपासना, द्वारा प्राप्त कर अभ्यास करते हैं। और वे (कवयः) क्रान्तदर्शी जन (तासां) उन वेदवाणियों के (वि जानन्ति हि) विशेष विज्ञान रहस्य को जान लेते हैं और (याः) जो (परेषु) सर्वोत्कृष्ट (गुह्येषु व्रतेषु) बुद्धि में स्थित ज्ञानमय कर्त्तव्यों का (निदानम्) स्थिर सम्बन्ध है उसको भी (नि चिक्युः) निश्चयपूर्वक जान लेते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः सर्वैरूपा घर्मो वा तापसः॥ विश्वेदेवा देवताः॥ छन्दः-१, ५, ७ त्रिष्टुप्। २, ३, ६ भुरिक् त्रिष्टुप्। ८, ९ निचृत् त्रिष्टुप्। १० पादनिचृत् त्रिष्टुप्। ४ जगती॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें