ऋग्वेद - मण्डल 10/ सूक्त 12/ मन्त्र 8
ऋषिः - हविर्धान आङ्गिः
देवता - अग्निः
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
यस्मि॑न्दे॒वा मन्म॑नि सं॒चर॑न्त्यपी॒च्ये॒३॒॑ न व॒यम॑स्य विद्म । मि॒त्रो नो॒ अत्रादि॑ति॒रना॑गान्त्सवि॒ता दे॒वो वरु॑णाय वोचत् ॥
स्वर सहित पद पाठयस्मि॑न् । दे॒वाः । मन्म॑नि । स॒म्ऽचर॑न्ति । अ॒पी॒च्ये॑ । न । व॒यम् । अ॒स्य॒ । वि॒द्म॒ । मि॒त्रः । नः॒ । अत्र॑ । अदि॑तिः । अना॑गान् । स॒वि॒ता । दे॒वः । वरु॑णाय । वो॒च॒त् ॥
स्वर रहित मन्त्र
यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये३ न वयमस्य विद्म । मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत् ॥
स्वर रहित पद पाठयस्मिन् । देवाः । मन्मनि । सम्ऽचरन्ति । अपीच्ये । न । वयम् । अस्य । विद्म । मित्रः । नः । अत्र । अदितिः । अनागान् । सविता । देवः । वरुणाय । वोचत् ॥ १०.१२.८
ऋग्वेद - मण्डल » 10; सूक्त » 12; मन्त्र » 8
अष्टक » 7; अध्याय » 6; वर्ग » 12; मन्त्र » 3
अष्टक » 7; अध्याय » 6; वर्ग » 12; मन्त्र » 3
विषय - मुक्ति के अविज्ञेय ब्रह्म के ज्ञान की जिज्ञासा।
भावार्थ -
(यस्मिन् मन्मनि) मनन करने योग्य ज्ञानमय जिसमें वा जिसके अधीन (देवाः संचरन्ति) विद्वान् और तेजस्वी लोग सम्यक् आचरण करते हैं। (वयम् अस्य) हम लोग उस प्रभु के (अपीच्ये) अप्रकट रूप में, विद्यमान स्वरूप को (न विद्म) नहीं जानते। वह (मित्रः) स्नेही, सब दुःखों से त्राण करने वाला, (अदितिः) अविनाशी, (सविता) सर्वोत्पादक, (देवः) सर्व-ज्ञानप्रद (वरुणाय) सर्वश्रेष्ठ प्रभु को प्राप्त करने के लिये (अनागान् नः) अपराध-रहित, निष्पाप हम को (अत्र) उस अजेय प्रभु के सम्बन्ध में (वोचत्) उपदेश करे, जिससे हम मुक्त हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - हविर्धान आङ्गिर्ऋषिः॥ अग्निर्देवता॥ छन्दः— १, ३ विराट् त्रिष्टुप्। २, ४,५, ७ निचृत् त्रिष्टुप्। ६ आर्ची स्वराट् त्रिष्टुप्। ८ पादनिचृत् त्रिष्टुप्। ९ त्रिष्टुप्॥ नवर्चं सूक्तम्॥
इस भाष्य को एडिट करें