ऋग्वेद - मण्डल 10/ सूक्त 25/ मन्त्र 1
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - सोमः
छन्दः - आस्तारपङ्क्ति
स्वरः - पञ्चमः
भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु॑म् । अधा॑ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥
स्वर सहित पद पाठभ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ । दक्ष॑म् । उ॒त । क्रतु॑म् । अध॑ । ते॒ । स॒ख्ये । अन्ध॑सः । वि । वः॒ । मदे॑ । रण॑न् । गावः॑ । न । यव॑से । विव॑क्षसे ॥
स्वर रहित मन्त्र
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥
स्वर रहित पद पाठभद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् । अध । ते । सख्ये । अन्धसः । वि । वः । मदे । रणन् । गावः । न । यवसे । विवक्षसे ॥ १०.२५.१
ऋग्वेद - मण्डल » 10; सूक्त » 25; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 1
विषय - सोम।
भावार्थ -
हे परमेश्वर ! (नः) हमें (भद्रं मनः अपि वातय) कल्याणकारी चित्त प्राप्त करा, हमें सुखदायी ज्ञान दे। (भद्रं दक्षम् उत क्रतुम्) सुखदायी बल और कर्मसामर्थ्य भी प्रदान कर। (यवसे न गावः) पशुगण जिस प्रकार चारे के लिये इच्छुक होते हैं वे उसे प्राप्त कर प्रसन्न होते हैं उसी प्रकार जीवगण (ते सख्ये अन्धसः रणन्) तेरे मित्रभाव में रह कर नाना प्रकार से अन्न, भोग्य कर्मफल प्राप्त कर आनन्द लाभ करते हैं। हे मनुष्यो ! (विवक्षसे वः वि मदे) वह महान् प्रभु आप लोगों को विविध आनन्द सुखादि देने हारा है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्र ऋषिः ॥ सोमो देवता ॥ छन्द:- १, २, ६, १०, ११ आस्तारपंक्तिः। ३–५ आर्षी निचृत् पंक्तिः। ७–९ आर्षी विराट् पंक्तिः॥ एकादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें