Loading...
ऋग्वेद मण्डल - 10 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 7/ मन्त्र 2
    ऋषिः - त्रितः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं॑ जा॒ता गोभि॒रश्वै॑र॒भि गृ॑णन्ति॒ राध॑: । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा॑नो म॒तिभि॑: सुजात ॥

    स्वर सहित पद पाठ

    इ॒माः । अ॒ग्ने॒ । म॒तयः॑ । तुभ्य॑म् । जा॒ताः । गोभिः॑ । अश्वैः॑ । अ॒भि । गृ॒ण॒न्ति॒ । राधः॑ । य॒दा । ते॒ । मर्तः॑ । अनु॑ । भोग॑म् । आन॑ट् । वसो॒ इति॑ । दधा॑नः । म॒तिऽभिः॑ । सु॒ऽजा॒त॒ ॥


    स्वर रहित मन्त्र

    इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राध: । यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभि: सुजात ॥

    स्वर रहित पद पाठ

    इमाः । अग्ने । मतयः । तुभ्यम् । जाताः । गोभिः । अश्वैः । अभि । गृणन्ति । राधः । यदा । ते । मर्तः । अनु । भोगम् । आनट् । वसो इति । दधानः । मतिऽभिः । सुऽजात ॥ १०.७.२

    ऋग्वेद - मण्डल » 10; सूक्त » 7; मन्त्र » 2
    अष्टक » 7; अध्याय » 6; वर्ग » 2; मन्त्र » 2

    भावार्थ -
    हे (अग्ने) ज्ञानवन् ! स्वप्रकाशक ! (इमाः मतयः) ये वाणियें (तुभ्यं जाताः) तेरी स्तुति के लिये प्रकट हुईं (गोभिः अश्वेभिः राधः गृणन्ति) गौवों, अश्वों सहित समस्त धन (तुभ्यं) तेरा ही बतलाती हैं। (मर्त्तः) मनुष्य (यदा) जब (ते भोगम् अनु आनट्) तुझ से ही अपना सब भोग्य पदार्थ, भोजन आदि प्राप्त करता है, हे (वसो) सबको बसाने वाले ! हे (सुजात) उत्तम गुणों से प्रकाशित ! तब वह मनुष्य (मतिभिः दधानः) उत्तम मतियों से ही उसको प्राप्त करता है।

    ऋषि | देवता | छन्द | स्वर - त्रित ऋषिः॥ अग्निर्देवता॥ छन्द:-१, ३, ५, ६ निचृत्त्रिष्टुप्। २, ४ त्रिष्टुप्। विराट् त्रिष्टुप्। सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top