ऋग्वेद - मण्डल 8/ सूक्त 1/ मन्त्र 34
ऋषिः - शश्वत्याङ्गिरस्यासङ्गस्य पत्नी
देवता - आसंङ्गः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता॑दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः । शश्व॑ती॒ नार्य॑भि॒चक्ष्या॑ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ॥
स्वर सहित पद पाठअनु॑ । अ॒स्य॒ । स्थू॒रम् । द॒दृ॒शे॒ । पु॒रस्ता॑त् । अ॒न॒स्थः । ऊ॒रुः । अ॒व॒ऽरम्ब॑माणः । शश्व॑ती । नारी॑ । अ॒भि॒ऽचक्ष्य॑ । आ॒ह॒ । सुऽभ॑द्रम् । अ॒र्य॒ । भोज॑नम् । बि॒भ॒र्षि॒ ॥
स्वर रहित मन्त्र
अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः । शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥
स्वर रहित पद पाठअनु । अस्य । स्थूरम् । ददृशे । पुरस्तात् । अनस्थः । ऊरुः । अवऽरम्बमाणः । शश्वती । नारी । अभिऽचक्ष्य । आह । सुऽभद्रम् । अर्य । भोजनम् । बिभर्षि ॥ ८.१.३४
ऋग्वेद - मण्डल » 8; सूक्त » 1; मन्त्र » 34
अष्टक » 5; अध्याय » 7; वर्ग » 16; मन्त्र » 4
अष्टक » 5; अध्याय » 7; वर्ग » 16; मन्त्र » 4
विषय - आसङ्ग प्लायोगि का रहस्य ।
भावार्थ -
( अस्य ) इस आत्मा का ( स्थूरम् ) स्थूल देह भी (अनु) इसके अनुरूप ही ( पुरस्तात् ) आगे (दहशे) दीखता है । वह स्वयं (अनस्थः) अस्थि आदि देहावयवों से भी रहित, ( ऊरुः ) जंघा के समान शरीर का आश्रय होकर भी ( अवरम्बमाणः ) देह का आश्रय ले रहा होता है । ( शश्वती ) सदा तनी ( नारी ) नर, आत्मा की सहयोगिनी बुद्धि (अभि चक्ष्य) आत्मा का साक्षात् करके (आह) कहती है हे ( अर्य ) स्वामिन् ! तू ही ( सु-भद्रम् ) शुभ, उत्तम सुखदायी (भोजनं ) भोग के साधन देह को (बिभर्षि) धारण करता और पालता पोषता है । इति षोडशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रगाथो घौरः काण्वो वा। ३–२९ मेधातिथिमेध्यातिथी काण्वौ। ३० – ३३ आसङ्गः प्लायोगिः। ३४ शश्वत्याङ्गिरम्यासगस्य पत्नी ऋषिः॥ देवताः१—२९ इन्द्रः। ३०—३३ आसंगस्य दानस्तुतिः। ३४ आसंगः॥ छन्दः—१ उपरिष्टाद् बृहती। २ आर्षी भुरिग् बृहती। ३, ७, १०, १४, १८, २१ विराड् बृहती। ४ आर्षी स्वराड् बृहती। ५, ८, १५, १७, १९, २२, २५, ३१ निचृद् बृहती। ६, ९, ११, १२, २०, २४, २६, २७ आर्षी बृहती। १३ शङ्कुमती बृहती। १६, २३, ३०, ३२ आर्ची भुरिग्बृहती। २८ आसुरी। स्वराड् निचृद् बृहती। २९ बृहती। ३३ त्रिष्टुप्। ३४ विराट् त्रिष्टुप्॥ चतुत्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें