Loading...
ऋग्वेद मण्डल - 8 के सूक्त 88 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 88/ मन्त्र 6
    ऋषिः - नोधा देवता - इन्द्र: छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    नकि॒: परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ । अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥

    स्वर सहित पद पाठ

    नकिः॑ । परि॑ष्टिः । म॒घ॒ऽव॒न् । म॒घस्य॑ । ते॒ । यत् । दा॒शुषे॑ । द॒श॒स्यसि॑ । अ॒स्माक॑म् । बो॒धि॒ । उ॒चथ॑स्य । चो॒दि॒ता । मंहि॑ष्ठः॑ । वाज॑ऽसातये ॥


    स्वर रहित मन्त्र

    नकि: परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि । अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥

    स्वर रहित पद पाठ

    नकिः । परिष्टिः । मघऽवन् । मघस्य । ते । यत् । दाशुषे । दशस्यसि । अस्माकम् । बोधि । उचथस्य । चोदिता । मंहिष्ठः । वाजऽसातये ॥ ८.८८.६

    ऋग्वेद - मण्डल » 8; सूक्त » 88; मन्त्र » 6
    अष्टक » 6; अध्याय » 6; वर्ग » 11; मन्त्र » 6

    भावार्थ -
    हे ( मघवन् ) ऐश्वर्यवन् ! ( यत् ) जो तू ( दशस्यसि ) दान करता है उस ( तं) तेरे ( मत्रस्य ) उत्तम धन का ( परिष्टिः ) बाधक ( नकिः ) कोई नहीं है। तू ( वाज-सातये ) ऐश्वर्य, बल, ज्ञान-प्रदान करने में ( मंहिष्ठः ) अति पूज्य दानी, और ( चोदिता ) सन्मार्ग में प्रेरक है। तू (अस्माकं उचथस्य बोधि ) हमारे वचन, स्तुति को जान। इत्येकादशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - नोधा ऋषिः॥ इन्द्रो देवता। छन्दः—१, ३ बृहती। ५ निचृद बृहती। २, ४ पंकिः। ६ विराट् पंक्ति:॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top