Loading...
ऋग्वेद मण्डल - 9 के सूक्त 107 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 107/ मन्त्र 1
    ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - विराड्बृहती स्वरः - मध्यमः

    परी॒तो षि॑ञ्चता सु॒तं सोमो॒ य उ॑त्त॒मं ह॒विः । द॒ध॒न्वाँ यो नर्यो॑ अ॒प्स्व१॒॑न्तरा सु॒षाव॒ सोम॒मद्रि॑भिः ॥

    स्वर सहित पद पाठ

    परि॑ । इ॒तः । सि॒ञ्च॒त॒ । सु॒तम् । सोमः॑ । यः । उ॒त्ऽत॒मम् । ह॒विः । द॒ध॒न्वान् । यः । नर्यः॑ । अ॒प्ऽसु । अ॒न्तः । आ । सु॒साव॑ । सोम॑म् । अद्रि॑ऽभिः ॥


    स्वर रहित मन्त्र

    परीतो षिञ्चता सुतं सोमो य उत्तमं हविः । दधन्वाँ यो नर्यो अप्स्व१न्तरा सुषाव सोममद्रिभिः ॥

    स्वर रहित पद पाठ

    परि । इतः । सिञ्चत । सुतम् । सोमः । यः । उत्ऽतमम् । हविः । दधन्वान् । यः । नर्यः । अप्ऽसु । अन्तः । आ । सुसाव । सोमम् । अद्रिऽभिः ॥ ९.१०७.१

    ऋग्वेद - मण्डल » 9; सूक्त » 107; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 12; मन्त्र » 1

    भावार्थ -
    (यः) जो ऐश्वर्यवान् (उत्तमं हविः दधन्वान्) उत्तम हवि, अन्न और उपाय को प्राप्त करता हुआ और (यः) जो (अप्सु अन्तरा) आप प्रजाजनों के बीच (नर्यः) समस्त मनुष्यों वा नायक नेताओं में श्रेष्ठ, उत्तम हैं उसको (अद्रिभिः) आदर योग्य, निर्भय पुरुषों द्वारा (आ सुषाव) सब प्रकार के प्रजाजन अभिषिक्त करें। हे विद्वान लोगो ! ऐसे ही (सोमम्) ऐश्वर्यवान्, वीर्यवान् (सुतम्) निष्णात पुरुष को (इतः) इस राष्ट्र में (परि सिञ्चत) सब ओर अभिषेक करो, उसकी सर्वत्र प्रतिष्ठा करो।

    ऋषि | देवता | छन्द | स्वर - सप्तर्षय ऋषयः॥ पवमानः सोमो देवता॥ छन्द:- १, ४, ६, ९, १४, २१ विराड् बृहती। २, ५ भुरिग् बृहती। ८,१०, १२, १३, १९, २५ बृहती। २३ पादनिचृद् बृहती। ३, १६ पिपीलिका मध्या गायत्री। ७, ११,१८,२०,२४,२६ निचृत् पंक्तिः॥ १५, २२ पंक्तिः॥ षड्विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top