Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1512
ऋषिः - प्रियमेध आङ्गिरसः देवता - इन्द्रः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः काण्ड नाम -
0

न꣣दं꣢ व꣣ ओ꣡द꣢तीनां न꣣दं꣡ योयु꣢꣯वतीनाम् । प꣡तिं꣢ वो꣣ अ꣡घ्न्या꣢नां धेनू꣣ना꣡मि꣢षुध्यसि ॥१५१२॥

स्वर सहित पद पाठ

न꣣द꣢म् । वः꣣ । ओ꣡द꣢꣯तीनाम् । न꣣द꣢म् । यो꣡यु꣢꣯वतीनाम् । प꣡ति꣢꣯म् । वः꣣ । अ꣡घ्न्या꣢꣯नाम् । अ । घ्न्या꣣नाम् । घेनूना꣢म् । इ꣣षुध्यसि ॥१५१२॥


स्वर रहित मन्त्र

नदं व ओदतीनां नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥१५१२॥


स्वर रहित पद पाठ

नदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् । पतिम् । वः । अघ्न्यानाम् । अ । घ्न्यानाम् । घेनूनाम् । इषुध्यसि ॥१५१२॥

सामवेद - मन्त्र संख्या : 1512
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 14; खण्ड » 2; सूक्त » 4; मन्त्र » 1
Acknowledgment

भावार्थ -
(वः) आप लोग (योयुवतीनां) कर्म का आदेश करने हारी ऋचाओं के (नदं) उपदेश करने हारे और (ओदतीनां) अध्यात्म ज्ञान का उपदेश करने हारे वेद वाणियों के (नदं) उपदेश और (अध्न्यानां) कभी घात न होने हारी अविनाशी, नित्य (धेनूनां) ज्ञानरस के पिलाने हारी वेदवाणियों के (पतिं) पालक प्रभु को (इषुध्यसि*) आश्रय करो और उसी से इष्ट फल प्राप्त कराने की याचना करो।

ऋषि | देवता | छन्द | स्वर - ऋषिः—१,९ प्रियमेधः। २ नृमेधपुरुमेधौ। ३, ७ त्र्यरुणत्रसदस्यू। ४ शुनःशेप आजीगर्तिः। ५ वत्सः काण्वः। ६ अग्निस्तापसः। ८ विश्वमना वैयश्वः। १० वसिष्ठः। सोभरिः काण्वः। १२ शतं वैखानसाः। १३ वसूयव आत्रेयाः। १४ गोतमो राहूगणः। १५ केतुराग्नेयः। १६ विरूप आंगिरसः॥ देवता—१, २, ५, ८ इन्द्रः। ३, ७ पवमानः सोमः। ४, १०—१६ अग्निः। ६ विश्वेदेवाः। ९ समेति॥ छन्दः—१, ४, ५, १२—१६ गायत्री। २, १० प्रागाथं। ३, ७, ११ बृहती। ६ अनुष्टुप् ८ उष्णिक् ९ निचिदुष्णिक्॥ स्वरः—१, ४, ५, १२—१६ षड्जः। २, ३, ७, १०, ११ मध्यमः। ६ गान्धारः। ८, ९ ऋषभः॥

इस भाष्य को एडिट करें
Top