Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 290
ऋषिः - भर्गः प्रागाथः
देवता - इन्द्रः
छन्दः - बृहती
स्वरः - मध्यमः
काण्ड नाम - ऐन्द्रं काण्डम्
9
उ꣣भ꣡य꣢ꣳ शृ꣣ण꣡व꣢च्च न꣣ इ꣡न्द्रो꣢ अ꣣र्वा꣢गि꣣दं꣡ वचः꣢꣯ । स꣣त्रा꣡च्या꣢ म꣣घ꣢वा꣣न्त्सो꣡म꣢पीतये धि꣣या꣡ शवि꣢꣯ष्ठ꣣ आ꣡ ग꣢मत् ॥२९०॥
स्वर सहित पद पाठउ꣣भ꣡य꣢म् । शृ꣣ण꣡व꣢त् । च꣣ । नः । इ꣡न्द्रः꣢꣯ । अ꣣र्वा꣢क् । इ꣣द꣢म् । व꣡चः꣢꣯ । स꣣त्रा꣡च्या꣢ । स꣣त्रा꣢ । च्या꣣ । मघ꣡वा꣢न् । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये । धिया꣣ । श꣡वि꣢꣯ष्ठः । आ । ग꣣मत् ॥२९०॥
स्वर रहित मन्त्र
उभयꣳ शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥२९०॥
स्वर रहित पद पाठ
उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । सत्रा । च्या । मघवान् । सोमपीतये । सोम । पीतये । धिया । शविष्ठः । आ । गमत् ॥२९०॥
सामवेद - मन्त्र संख्या : 290
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 6;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( इन्द्रः ) = आत्मा ( नः ) = हमारे ( अर्वाग् ) = आभ्यन्तर मानस और ( इदं च ) = इस प्रत्यक्ष, उच्चारण किये हुए, ( उभय ) = दोनों प्रकार के ( वच:) = वचनों को ( शृणवत् ) = सुनने हारा ( मघवान् ) = नाना ऐश्वर्यों से सम्पन्न, ( शविष्ट: ) = बलवान् आत्मा ( सोमपीतये ) = परमेश्वर के दिये परमसुख रूप सोमरस पान करने के लिये ( सत्राच्या धिया ) = सत्यानुकूल बुद्धि से सम्पन्न होकर ( आगमत् ) = हमें प्राप्त हो ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - भर्गः ।
देवता - इन्द्रः।
छन्दः - बृहती।
स्वरः - मध्यमः।
इस भाष्य को एडिट करें