Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 466
ऋषिः - गृत्समदः शौनकः देवता - इन्द्रः छन्दः - अष्टिः स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
6

त꣢व꣣ त्य꣡न्न꣢꣯र्यं नृ꣣तो꣡ऽप꣢ इन्द्र प्रथ꣣मं꣢ पू꣣र्व्यं꣢ दि꣣वि꣢ प्र꣣वा꣡च्यं꣢ कृ꣣त꣢म् । यो꣢ दे꣣व꣢स्य꣣ श꣡व꣢सा꣣ प्रा꣡रि꣢णा꣣ अ꣡सु꣢ रि꣣ण꣢न्न꣣पः꣢ । भु꣢वो꣣ वि꣡श्व꣢म꣣भ्य꣡दे꣢व꣣मो꣡ज꣢सा वि꣣दे꣡दूर्ज꣢꣯ꣳ श꣣त꣡क्र꣢तुर्वि꣣दे꣡दिष꣢꣯म् ॥४६६॥

स्वर सहित पद पाठ

त꣡व꣢꣯ । त्यत् । न꣡र्य꣢꣯म् । नृ꣣तो । अ꣡पः꣢꣯ । इ꣣न्द्र । प्रथम꣢म् । पू꣣र्व्य꣢म् । दि꣣वि꣢ । प्र꣣वाच्य꣢म् । प्र꣣ । वा꣡च्य꣢꣯म् । कृ꣣त꣢म् । यः । दे꣣व꣡स्य꣢ । श꣡व꣢꣯सा । प्रा꣡रि꣢꣯णाः । प्र꣣ । अ꣡रि꣢꣯णाः । अ꣡सु꣢꣯ । रि꣣ण꣢न् । अ꣣पः꣢ । भु꣡वः꣢꣯ । वि꣡श्व꣢꣯म् । अ꣣भि꣢ । अ꣡देव꣢꣯म् । अ । दे꣣वम् । ओ꣡ज꣢꣯सा । वि꣣दे꣢त् । ऊ꣡र्ज꣢꣯म् । श꣣त꣡क्र꣢तुः । श꣣त꣢ । क्र꣣तुः । विदे꣢त् । इ꣡ष꣢꣯म् ॥४६६॥


स्वर रहित मन्त्र

तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् । यो देवस्य शवसा प्रारिणा असु रिणन्नपः । भुवो विश्वमभ्यदेवमोजसा विदेदूर्जꣳ शतक्रतुर्विदेदिषम् ॥४६६॥


स्वर रहित पद पाठ

तव । त्यत् । नर्यम् । नृतो । अपः । इन्द्र । प्रथमम् । पूर्व्यम् । दिवि । प्रवाच्यम् । प्र । वाच्यम् । कृतम् । यः । देवस्य । शवसा । प्रारिणाः । प्र । अरिणाः । असु । रिणन् । अपः । भुवः । विश्वम् । अभि । अदेवम् । अ । देवम् । ओजसा । विदेत् । ऊर्जम् । शतक्रतुः । शत । क्रतुः । विदेत् । इषम् ॥४६६॥

सामवेद - मन्त्र संख्या : 466
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = हे ( नृतः ) = समस्त संसार को नचाने या अपनी इच्छानुकूल चलाने हारे ! ( त्यत् ) = वह ( अप: ) = कर्म ( प्रथमं ) = सबसे उत्कृष्ट ( दिवि ) = द्यौलोक में भी ( पूर्व्यं ) = सबसे पूर्व ( प्रवाच्यं ) = उत्तम रीति से वर्णन करने योग्य ( कृतं ) = किया हुआ सर्ग ( तव ) = तेरा ही है । ( यः ) = जो ( शवसा ) = अपने वेग या बल से ( देवस्य ) = प्रकाशमान, दिजिगीषु, महाप्राणधारी हिरण्यगर्भ के ( असुम् ) = पवनरूप प्राण को ( रिणन् ) = गति देता हुआ ( अपः ) = नाना लोकों को ( प्र अरिणः ) = प्रकृष्ट वेग से चला रहा है। ओर वह देव ( विश्वम् ) = समस्त ( अदेवं ) = न प्रकाशित होने वाले, मृतप्राय, नाना पृथिवी आदि लोकों, पिण्डों को भी ( ओजसा ) = अपने बल से, कान्ति से ( भुवत् ) = व्याप्त होकर उनमें ( ऊर्जम् ) = अन्नादि खाद्य पदार्थ और जीवनमय पदार्थ ( विदेद् ) = प्राप्त कराता है, उत्पन्न करता है वह ( शतक्रतुः ) = सैकड़ों कमों को करने हारा शिल्पी ( इषं विदेत् ) = हमें जीवन, प्राण और अन्न दे ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - गृत्समदः।

देवता - इन्द्रः।

छन्दः - अतिशक्वरी ।

स्वरः - पंचम:। 

इस भाष्य को एडिट करें
Top