Loading...
ऋग्वेद मण्डल - 1 के सूक्त 50 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 50/ मन्त्र 1
    ऋषिः - प्रस्कण्वः काण्वः देवता - सूर्यः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

    स्वर सहित पद पाठ

    उत् । ऊँ॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ । दृ॒शे । विश्वा॑य । सूर्य॑म् ॥


    स्वर रहित मन्त्र

    उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥

    स्वर रहित पद पाठ

    उत् । ऊँ इति । त्यम् । जातवेदसम् । देवम् । वहन्ति । केतवः । दृशे । विश्वाय । सूर्यम्॥

    ऋग्वेद - मण्डल » 1; सूक्त » 50; मन्त्र » 1
    अष्टक » 1; अध्याय » 4; वर्ग » 7; मन्त्र » 1

    सन्धिविच्छेदसहितोऽन्वयः - हे मनुष्या ! यूयं यथा केतवः रश्मयोः विश्वाय दृश उदुत्यं जातवेदसं देवं सूर्य्यम् उत् वहन्ति तथा गृहाश्रमसुखदर्शनाय सुशोभनाः स्त्रिय उत् वहत ॥१॥

    पदार्थ -
    हे (मनुष्या)= मनुष्यों ! (यूयम्) =तुम सब, (यथा) =जैसे, (केतवः) किरणाः=किरणें, (विश्वाय) सर्वेषां दशनव्यवहाराय=सबके देखने के व्यवहारों के लिये, (दृशे) द्रष्टुं दर्शयितुं वा=देखने के लिये , (उत्) ऊर्ध्वार्थे=ऊपर [से चमकती हैं] (उ) वितर्के=अथवा, (त्यम्) अमुम्=उसको (स्त्री0), (जातवेदसम्) यो जातान् पदार्थान् विंदति तम्=उत्पन्न होने के साथ ही पदार्थों को जाननेवाली, (देवम्) देदीप्यमानम् = तीव्रता से चमक रहे, (सूर्य्यम्) सवितृलोकम्=सूर्य लोक को, (वहन्ति) प्राप्नुवन्ति=प्राप्त करते हैं, (तथा)=वैसे ही, (गृहाश्रमसुखदर्शनाय)= गृहस्थ आश्रम के सुख के दर्शन के लिये, (सुशोभनाः)=उत्तम शोभनीय, (स्त्रिय)= स्त्री को, (वहत)=प्राप्त करो ॥१॥

    महर्षिकृत भावार्थ का भाषानुवाद - जैसे अश्ववाले रथ की किरणें सूर्य को प्राप्त कराती हैं, धार्मिक लोग विद्या और धर्म के प्रकाश से युक्त होकर, अपने समान स्त्रियों से सब पुरुषों का विवाह करावें ॥१॥

    पदार्थान्वयः(म.द.स.) - हे (मनुष्या) मनुष्यों ! (यूयम्) तुम सब (यथा) जैसे (केतवः) किरणें (विश्वाय) सबके देखने के लिये (उत्) ऊपर (उ) अथवा (त्यम्) उस (जातवेदसम्) उत्पन्न होने के साथ ही पदार्थों को जाननेवाले (देवम्) तीव्रता से चमक रहे (सूर्य्यम्) सूर्य लोक को (वहन्ति) प्राप्त करते हैं, (तथा) वैसे ही (गृहाश्रमसुखदर्शनाय) गृहस्थ आश्रम के सुख के दर्शन के लिये (सुशोभनाः) उत्तम शोभनीय (स्त्रिय) स्त्री को (वहत) प्राप्त करो ॥१॥

    संस्कृत भाग - पदार्थः(महर्षिकृतः)- (उत्) ऊर्ध्वार्थे (उ) वितर्के (त्यम्) अमुम् (जातवेदसम्) यो जातान् पदार्थान् विंदति तम् (देवम्) देदीप्यमानम् (वहन्ति) प्राप्नुवन्ति (केतवः) किरणाः (दृशे) द्रष्टुं दर्शयितुं वा। इदं #केन्प्रत्ययान्तं निपातनम् (विश्वाय) सर्वेषां दशनव्यवहाराय (सूर्य्यम्) सवितृलोकम्। यास्कमुनिरिमं मंत्रमेवं व्याख्यातवान्। उद्वहन्ति तं जातवेदसं देवमश्वाः केतवो रश्मयो वा सर्वेषां भूतानां संदर्शनाय सूर्य्यम्। निरु० १२।१५। ॥१॥ #[‘दृशे विख्येच’ अ० ३।४।११। इत्यनने सूत्रेण। सं०।] विषयः- तत्रादिमे मंत्रे कीदृग्लक्षणः सूर्योऽस्तीत्युपदिश्यते। अन्वयः- हे मनुष्या ! यूयं यथा केतवो रश्मयो विश्वाय दृश उदुत्यं जातवेदसं देवं सूर्य्यमुद्वहन्ति तथा गृहाश्रमसुखदर्शनाय सुशोभनाः स्त्रिय उद्वहत ॥१॥ भावार्थः(महर्षिकृतः)- धार्मिका जना यथाश्वा रथं किरणाश्च सूर्यं वहंत्येवं विद्याधर्मप्रकाशयुक्ताः स्वसदृशाः स्त्रियः सर्वान्पुरुषानुद्वाहयेयुः ॥१॥

    इस भाष्य को एडिट करें
    Top