ऋग्वेद - मण्डल 10/ सूक्त 103/ मन्त्र 2
ऋषिः - अप्रतिरथ ऐन्द्रः
देवता - इन्द्र:
छन्दः - स्वराट्त्रिष्टुप्
स्वरः - धैवतः
सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ । तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥
स्वर सहित पद पाठस॒म्ऽक्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्ऽका॒रेण॑ । दुः॒ऽच्य॒व॒नेन॑ । धृ॒ष्णुना॑ । तत् । इन्द्रे॑ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः॑ । न॒रः॒ । इषु॑ऽहस्तेन । वृष्णा॑ ॥
स्वर रहित मन्त्र
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
स्वर रहित पद पाठसम्ऽक्रन्दनेन । अनिऽमिषेण । जिष्णुना । युत्ऽकारेण । दुःऽच्यवनेन । धृष्णुना । तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥ १०.१०३.२
ऋग्वेद - मण्डल » 10; सूक्त » 103; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 22; मन्त्र » 2
अष्टक » 8; अध्याय » 5; वर्ग » 22; मन्त्र » 2
पदार्थः -
(सङ्क्रन्दनेन) सङ्क्रन्दयित्रा (अनिमिषेण) अनलसेन (जिष्णुना) जयशीलेन (युत्कारेण) योधनं युत् “युध धातोः क्विप्भावे यो योधनं युधं करोति स युत्कारः कर्मण्यण्” [अष्टा० ३।२।१] (दुश्च्यवनेन) शत्रुर्भियो दुःखेन च्यवितव्यो न हि च्यावितव्य इत्यर्थस्तथाभूतेन (धृष्णुना) शत्रूणां धर्षयित्रा (इषुहस्तेन) इषवो हस्तयोर्यस्य तथाभूतेन शस्त्रपाणिना (वृष्णा) सङ्ग्रामे शस्त्रवर्षकेण बलवता वा (इन्द्रेण) राज्ञा सह (युधः-नरः) योद्धारो नराः ! (तत्-जयत) तद्युद्धं जयतं (तत्-सहध्वम्) तद् युद्धमभिभवत ॥२॥