Loading...
ऋग्वेद मण्डल - 10 के सूक्त 184 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 184/ मन्त्र 1
    ऋषिः - त्वष्टा गर्भकर्त्ता विष्णुर्वा प्राजापत्यः देवता - लिङ्गोत्ताः (गर्भार्थाशीः) छन्दः - अनुष्टुप् स्वरः - गान्धारः

    विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु । आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥

    स्वर सहित पद पाठ

    विष्णुः॑ । योनि॑म् । क॒ल्प॒य॒तु॒ । त्वष्टा॑ । रू॒पाणि॑ । पिं॒श॒तु॒ । आ । सि॒ञ्च॒तु॒ । प्र॒जाऽप॑तिः । धा॒ता । गर्भ॑म् । द॒धा॒तु॒ । ते॒ ॥


    स्वर रहित मन्त्र

    विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥

    स्वर रहित पद पाठ

    विष्णुः । योनिम् । कल्पयतु । त्वष्टा । रूपाणि । पिंशतु । आ । सिञ्चतु । प्रजाऽपतिः । धाता । गर्भम् । दधातु । ते ॥ १०.१८४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 184; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 42; मन्त्र » 1

    पदार्थः -
    (विष्णुः-योनिं कल्पयतु) होमयज्ञः “यज्ञो वै विष्णुः” [श० १।१।२।३] स्त्रीयोनिं विकासयतु (त्वष्टा रूपाणि पिंशतु) सूर्यः “त्वष्ट्रा-छेदकेन प्रतापिना सूर्येण” [यजु० १०।३० दयानन्दः] गर्भस्य रूपाणि भिन्नभिन्नाङ्गानां स्वरूपाणि पृथक् पृथक् करोति “पिंशति-पृथक् करोति” [ऋ० १।१६।१० दयानन्दः] (प्रजापतिः-आसिञ्चतु) मातृगता आपः ‘अप्तत्त्वम्’ “आपो वै प्रजापतिः” [श० ८।२।३।१३] समन्तात् सिञ्चतु (धाता ते गर्भं दधातु) पृथिवी “इयं पृथिवी वै धाता” [तै० २।८।२३।३] तुभ्यं गर्भं धारयतु पोषयतु ॥१॥

    इस भाष्य को एडिट करें
    Top