Loading...
ऋग्वेद मण्डल - 10 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 1
    ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः देवता - आपो गावो वा, अग्नीसोमौ छन्दः - निचृत्त्रिष्टुप् स्वरः - गान्धारः

    नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्त्सि॑षक्त रेवतीः । अग्नी॑षोमा पुनर्वसू अ॒स्मे धा॑रयतं र॒यिम् ॥

    स्वर सहित पद पाठ

    नि । व॒र्त॒ध्व॒म् । मा । अनु॑ । गा॒त॒ । अ॒स्मान् । सि॒स॒क्त॒ । रेवतीः । अग्नी॑षोमा । पु॒न॒र्व॒सू॒ इति॑ पुनःऽवसू । अ॒स्मे इति॑ । धा॒र॒य॒त॒म् । र॒यिम् ॥


    स्वर रहित मन्त्र

    नि वर्तध्वं मानु गातास्मान्त्सिषक्त रेवतीः । अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥

    स्वर रहित पद पाठ

    नि । वर्तध्वम् । मा । अनु । गात । अस्मान् । सिसक्त । रेवतीः । अग्नीषोमा । पुनर्वसू इति पुनःऽवसू । अस्मे इति । धारयतम् । रयिम् ॥ १०.१९.१

    ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 1
    अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 1

    पदार्थः -
    (रेवतीः) हे रेवत्यः-दुग्धादिपोषणपदार्थवत्यः-पोषणपदार्थप्रदात्र्यो गावः प्रजा इन्द्रियशक्तयो वा “रयिं देहि पोषं देहि” [काठ०१।७] “वीर्यं वै रयिः” [श०१३।४।२।१३] “रयेर्मतौ बहुलम्” [अष्टा०६।१।३७] छन्दसि सम्प्रसारणं मस्य वत्वं च। ‘गोपतौ’ (३) ‘गोपाः’ (४) (५) ‘गाः’ (६) मन्त्रेषु दर्शनात्प्राधान्येन गावो देवताः। ताश्चात्र पशवः, प्रजाः, इन्द्रियाणि लक्ष्यन्ते (निवर्तध्वम्) इतस्ततो वने चरित्वा प्रत्यागच्छत, यात्रां कृत्वा प्रत्यागच्छत, विषयान् लब्ध्वा स्वस्थाने स्वस्था भवत (मा-अनुगात) अन्यस्यानुगमनं मा कुरुत (अस्मान् सिषक्त) अस्मान् दुग्धादिभिः पुनः पुनः सेचयत, राज्याभिषेकाय वृणुत, भौगैस्तर्पयत (पुनर्वसू-अग्नीषोमा) पुनः पुनः निरन्तरं वासयितारौ प्राणापानौ। “प्राणापानावग्नीषोमौ” [ऐ०१।८] (अस्मे) अस्मभ्यम् (रयिं धारयतम्) पोषं धारयतं सम्पादयतम् ॥१॥

    इस भाष्य को एडिट करें
    Top