ऋग्वेद - मण्डल 10/ सूक्त 54/ मन्त्र 1
ऋषिः - वृहदुक्थो वामदेव्यः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
तां सु ते॑ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा॑ भी॒ते रोद॑सी॒ अह्व॑येताम् । प्रावो॑ दे॒वाँ आति॑रो॒ दास॒मोज॑: प्र॒जायै॑ त्वस्यै॒ यदशि॑क्ष इन्द्र ॥
स्वर सहित पद पाठताम् । सु । ते॒ । की॒र्तिम् । म॒घ॒ऽव॒न् । म॒हि॒ऽत्वा । यत् । त्वा॒ । भी॒ते इति॑ । रोद॑सी॒ इति॑ । अह्व॑येताम् । प्र । आ॒वः॒ । दे॒वान् । आ । अ॒ति॒रः॒ । दास॑म् । ओजः॑ । प्र॒ऽजायै॑ । त्व॒स्यै॒ । यत् । अशि॑क्षः । इन्द्र ॥
स्वर रहित मन्त्र
तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् । प्रावो देवाँ आतिरो दासमोज: प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥
स्वर रहित पद पाठताम् । सु । ते । कीर्तिम् । मघऽवन् । महिऽत्वा । यत् । त्वा । भीते इति । रोदसी इति । अह्वयेताम् । प्र । आवः । देवान् । आ । अतिरः । दासम् । ओजः । प्रऽजायै । त्वस्यै । यत् । अशिक्षः । इन्द्र ॥ १०.५४.१
ऋग्वेद - मण्डल » 10; सूक्त » 54; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 1
विषयः - अत्र सूक्ते ‘इन्द्र’शब्देन परमात्मा गृह्यते। तस्य स्वाभाविकनाम ‘ओ३म्’ प्रत्येकज्योतिष्मति पिण्डे ज्योतिर्ददाति मानवकल्याणाय वेदज्ञानमुपदिशति, इति प्रमुखविषयाः।
पदार्थः -
(मघवन्) हे सर्वैश्वर्यस्वामिन् ! (ते महित्वा) तव महत्त्वेन सिद्धाम् (तां सु कीर्तिम्) तां शोभनां कीर्तिं गुणगीतिं वर्णयामि (यत्) यतः (भीते रोदसी त्वा-अह्वयेताम्) भयप्राप्तौ द्यावापृथिव्याविव ज्ञानप्रकाशवदज्ञानान्धकारवन्तौ जनौ राजाप्रजाजनौ वा “रोदसी द्यावापृथिव्याविव राजाप्रजाव्यवहारौ” [ऋ० ३।३८।८ दयानन्दः] त्वामाह्वयतः (देवान् प्रावः-यत्) यतस्त्वं देवान् दिव्यगुणयुक्ता नास्तिकान् रक्षसि (दासम्-अतिरः) उपक्षयकर्त्तारं दुष्टं जनं नाशयसि “अतिरः-हंसि” [ऋ० ४।३०।७ दयानन्दः] (इन्द्र यत्) हे ऐश्वर्यवन् परमात्मन् ! यत् त्वम् (त्वस्यै प्रजायै-ओजः-अशिक्षः) अपि तु देवदासयोर्मध्ये वर्तमानायै-एकस्यै देवप्रजायै बलमध्या-त्मबलं च ददासि “शिक्षति दानकर्मा” [निघ० ३।२०] ॥१॥