ऋग्वेद - मण्डल 10/ सूक्त 57/ मन्त्र 1
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा
देवता - विश्वेदेवा:
छन्दः - गायत्री
स्वरः - षड्जः
मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिन॑: । मान्त स्थु॑र्नो॒ अरा॑तयः ॥
स्वर सहित पद पाठमा । प्र । गा॒म॒ । प॒थः । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र॒ । सो॒मिनः॑ । मा । अ॒न्तरिति॑ । स्थुः॒ । नः॒ । अरा॑तयः ॥
स्वर रहित मन्त्र
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिन: । मान्त स्थुर्नो अरातयः ॥
स्वर रहित पद पाठमा । प्र । गाम । पथः । वयम् । मा । यज्ञात् । इन्द्र । सोमिनः । मा । अन्तरिति । स्थुः । नः । अरातयः ॥ १०.५७.१
ऋग्वेद - मण्डल » 10; सूक्त » 57; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 19; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 19; मन्त्र » 1
विषयः - अत्र सूक्ते ‘विश्वेदेवाः’ विद्यायां निष्णाता विद्वांसो गृह्यन्ते। तेभ्यः शिक्षाग्रहणं वेदाध्ययनेन व्यवहारज्ञानप्रापणं संयमपूर्वकं परमात्मनः श्रवणमनननिदिध्यासनसाक्षात्काराश्चेति श्रवणचतुष्टयादिकमुपदिश्यते।
पदार्थः -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (वयं सोमिनः पथः मा प्रगाम) वयं तवाध्यात्मैश्वर्यवतो मार्गात्-उपदेशरूपात् कदापि न प्रच्यवाम, तथा (मा यज्ञात्) न हि यजनात्-सङ्गमरूपात् प्रच्यवाम (अरातयः-मा नः-अन्तः स्थुः) कामादयो रसरक्तादिधातूनामादातारो गृहीतारोऽस्माकं मध्ये न तिष्ठन्तु ॥१॥