Loading...
ऋग्वेद मण्डल - 10 के सूक्त 57 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 57/ मन्त्र 5
    ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा देवता - विश्वेदेवा: छन्दः - निचृद्गायत्री स्वरः - षड्जः

    पुन॑र्नः पितरो॒ मनो॒ ददा॑तु॒ दैव्यो॒ जन॑: । जी॒वं व्रातं॑ सचेमहि ॥

    स्वर सहित पद पाठ

    पुनः॑ । नः॒ । पि॒त॒रः॒ । मनः॑ । ददा॑तु । दैव्यः॑ । जनः॑ । जी॒वम् । व्रात॑म् । स॒चे॒म॒हि॒ ॥


    स्वर रहित मन्त्र

    पुनर्नः पितरो मनो ददातु दैव्यो जन: । जीवं व्रातं सचेमहि ॥

    स्वर रहित पद पाठ

    पुनः । नः । पितरः । मनः । ददातु । दैव्यः । जनः । जीवम् । व्रातम् । सचेमहि ॥ १०.५७.५

    ऋग्वेद - मण्डल » 10; सूक्त » 57; मन्त्र » 5
    अष्टक » 8; अध्याय » 1; वर्ग » 19; मन्त्र » 5

    पदार्थः -
    (पितरः) हे पालकजनाः ! (दिव्यः-जनः-नः मनः पुनः ददातु) विद्वज्जनोऽस्माकं मनोऽन्तःकरणं पुनः पुनः ददातु ज्ञानप्रदानेन प्रवर्धयतु (जीवं व्रातं सचेमहि) जीवमात्रं सेवेमहि-उपयुक्तं कुर्याम ॥५॥

    इस भाष्य को एडिट करें
    Top