ऋग्वेद - मण्डल 10/ सूक्त 59/ मन्त्र 1
ऋषिः - बन्ध्वादयो गौपायनाः
देवता - निर्ऋतिः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
प्र ता॒र्यायु॑: प्रत॒रं नवी॑य॒ स्थाता॑रेव॒ क्रतु॑मता॒ रथ॑स्य । अध॒ च्यवा॑न॒ उत्त॑वी॒त्यर्थं॑ परात॒रं सु निॠ॑तिर्जिहीताम् ॥
स्वर सहित पद पाठप्र । ता॒रि॒ । आयुः॑ । प्र॒ऽत॒रम् । नवी॑यः । स्थाता॑राऽइव । क्रतु॑ऽमता । रथ॑स्य । अध॑ । च्यवा॑नः । उत् । त॒वी॒ति॒ । अर्थ॑म् । प॒रा॒ऽत॒रम् । सु । निःऽऋ॑तिः । जि॒ही॒ता॒म् ॥
स्वर रहित मन्त्र
प्र तार्यायु: प्रतरं नवीय स्थातारेव क्रतुमता रथस्य । अध च्यवान उत्तवीत्यर्थं परातरं सु निॠतिर्जिहीताम् ॥
स्वर रहित पद पाठप्र । तारि । आयुः । प्रऽतरम् । नवीयः । स्थाताराऽइव । क्रतुऽमता । रथस्य । अध । च्यवानः । उत् । तवीति । अर्थम् । पराऽतरम् । सु । निःऽऋतिः । जिहीताम् ॥ १०.५९.१
ऋग्वेद - मण्डल » 10; सूक्त » 59; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 1
अष्टक » 8; अध्याय » 1; वर्ग » 22; मन्त्र » 1
विषयः - अत्र सूक्ते भिन्नभिन्नदेवतावाचकशब्देभ्योऽनेके लाभा ग्राह्याः, यथा संयमेन गृहस्थचालनं, स्थायित्वमन्नस्य, शीघ्रं जरामरणे न स्यातामिति वार्तिकम्।
पदार्थः -
(क्रतुमता) गृहस्थयज्ञवता जनेन गृहस्थेन (नवीयः-प्रतरम्-आयुः प्रतारि) नवतरं जातस्य बालस्य प्रकृष्टतरं प्रवर्धनयोग्यमायुः प्रवर्धयितव्यम् (रथस्य स्थातारा-इव रथस्य स्थातारौ-यथा रथे तिष्ठन्तौशुभां यात्रां वहतस्तद्वद्गृहस्थे तिष्ठन्तौ स्त्रीपुरुषौ शुभयात्रां वहतः (अध) अथ-अनन्तरम् (च्यवानः परातरम्-अर्थम्-उत्तवीति) यथा कश्चिद् गच्छन् “च्यवानं गच्छन्तम्” [ऋ० १।११७।१३ दयानन्दः] दूरतरं स्वलक्ष्यं प्राप्नोति (निर्ऋतिः सुजिहीताम्) जीवनयात्राया मध्ये खल्वागता कृच्छ्रापत्तिः सुगमतया त्यजतु दूरं गच्छतु वा ॥१॥