ऋग्वेद - मण्डल 10/ सूक्त 74/ मन्त्र 1
वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः । अर्व॑न्तो वा॒ ये र॑यि॒मन्त॑: सा॒तौ व॒नंअ वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥
स्वर सहित पद पाठवसू॑नाम् । वा॒ । च॒र्कृ॒षे॒ । इय॑क्षन् । धि॒या । वा॒ । य॒ज्ञैः । वा॒ । रोद॑स्योः । अर्व॑न्तः । वा॒ । ये । र॒यि॒ऽमन्तः॑ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒ऽश्रुण॑म् । सु॒ऽश्रुतः॑ । धुरिति॒ धुः ॥
स्वर रहित मन्त्र
वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः । अर्वन्तो वा ये रयिमन्त: सातौ वनंअ वा ये सुश्रुणं सुश्रुतो धुः ॥
स्वर रहित पद पाठवसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः । अर्वन्तः । वा । ये । रयिऽमन्तः । सातौ । वनुम् । वा । ये । सुऽश्रुणम् । सुऽश्रुतः । धुरिति धुः ॥ १०.७४.१
ऋग्वेद - मण्डल » 10; सूक्त » 74; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 1
विषयः - अत्र सूक्तेऽपि पूर्ववद्राजधर्म उपदिश्यते, विशेषतः प्रजाहितं साधनं शत्रुनाशनं चोपदिश्यते। उच्चाधिकारिभ्यः पुरस्कारो दातव्यश्चेत्यपि वर्ण्यते।
पदार्थः -
(रोदस्योः) राजप्रजाव्यवहारयोः प्रसिद्धा अधिकारिणः “रोदसी राजप्रजाव्यवहारौ” [ऋ० ३।३८।८ दयानन्दः] (वसूनाम्-इयक्षन्) वसूनि ‘व्यत्ययेन द्वितीयास्थाने षष्ठी’ दातुमिच्छन् तथा तैः सः (चकृषे) स्वसेवाकार्यनिमित्तीकृत्य च स्वाभिमुखमाकृष्यते वा (धिया वा यज्ञैः-वा) तथाऽन्यैर्जनैश्च स्वप्रज्ञानेन ज्ञानप्रकाशेन “धीः प्रज्ञानाम” [निघ० ३।९] ज्ञानप्रकाशं निमित्तीकृत्य तथा जनहितदानादिभिः स्वाभिमुखमाकृष्यते (अर्वन्तः-वा ये रयिमन्तः) अर्वन्तः सैनिकाश्च “अर्वता अश्वादियुक्तेन सैन्येन” [ऋ० २।२।१० दयानन्दः] ‘मतुब्लोपश्छान्दसः’ ये वीर्यवन्तः “वीर्यं वै रयिः” [श० १३।४।२।१३] (सातौ) सङ्ग्रामे “सातौ युद्धे” [ऋ० १।३६।१७ दयानन्दः] (ये सुश्रुतः) ये सुश्रूयन्ते राष्ट्रे ते प्रसिद्धा योद्धारः (सुश्रुणं वनुं धुः) सुप्रसिद्धं हिंसकं शत्रुसैन्यं धूनयन्ति तैरपि स्वशौर्यं निमित्तीकृत्याकृष्यते पुरस्कारार्थाय ॥१॥।