Loading...
ऋग्वेद मण्डल - 10 के सूक्त 78 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 78/ मन्त्र 2
    ऋषिः - स्यूमरश्मिर्भार्गवः देवता - मरूतः छन्दः - विराड्जगती स्वरः - निषादः

    अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युज॑: स॒द्यऊ॑तयः । प्र॒ज्ञा॒तारो॒ न ज्येष्ठा॑: सुनी॒तय॑: सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ॥

    स्वर सहित पद पाठ

    अ॒ग्निः । न । ये । भ्राज॑सा । रु॒क्मऽव॑क्षसः । वाता॑सः । न । स्व॒ऽयुजः॑ । स॒द्यःऽऊ॑तयः । प्र॒ऽज्ञा॒तारः॑ । न । ज्येष्ठाः॑ । सु॒ऽनी॒तयः॑ । सु॒ऽशर्मा॑णः । न । सोमाः॑ । ऋ॒तम् । य॒ते ॥


    स्वर रहित मन्त्र

    अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुज: सद्यऊतयः । प्रज्ञातारो न ज्येष्ठा: सुनीतय: सुशर्माणो न सोमा ऋतं यते ॥

    स्वर रहित पद पाठ

    अग्निः । न । ये । भ्राजसा । रुक्मऽवक्षसः । वातासः । न । स्वऽयुजः । सद्यःऽऊतयः । प्रऽज्ञातारः । न । ज्येष्ठाः । सुऽनीतयः । सुऽशर्माणः । न । सोमाः । ऋतम् । यते ॥ १०.७८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 78; मन्त्र » 2
    अष्टक » 8; अध्याय » 3; वर्ग » 12; मन्त्र » 2

    पदार्थः -
    (अग्निः-न ये भ्राजसा) अग्निरिव ये मरुतस्तेजसा (रुक्मवक्षसः-न-स्वयुजः-सद्यः-ऊतयः) तेजोवक्षो बाहुमन्त इव स्वयोग्यतावन्तः सद्यः रक्षकाः सन्ति (प्रज्ञातारः-न ज्येष्ठाः सुनीतयः) प्रकृष्टज्ञातार इव प्रमुखाः सुनयनकर्तारः (सुशर्माणः-न सोमाः-ऋतं यते) सुप्रतिष्ठानाः “सुशर्मा प्रतिष्ठाना” [श० ४।४।१।१४] इव शान्तसुखकराः अध्यात्मयज्ञं गतवते जनाय “यतते गतिकर्मा” [निघ० १।१४] ‘यत् क्विप् प्रत्ययो बाहुलकात्’ उपदेशं कुर्वन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top