ऋग्वेद - मण्डल 10/ सूक्त 80/ मन्त्र 1
ऋषिः - अग्निः सौचीको वैश्वानरो वा
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अ॒ग्निः सप्तिं॑ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठाम् । अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिम् ॥
स्वर सहित पद पाठअ॒ग्निः । सप्ति॑म् । वा॒ज॒म्ऽभ॒रम् । द॒दा॒ति॒ । अ॒ग्निः । वी॒रम् । श्रुत्य॑म् । क॒र्म॒निः॒ऽस्थाम् । अ॒ग्निः । रोद॑सी॒ इति॑ । वि । च॒र॒त् । स॒म्ऽअ॒ञ्जन् । अ॒ग्निः । नारी॑म् । वी॒रऽकु॑क्षिम् । पुर॑म्ऽधिम् ॥
स्वर रहित मन्त्र
अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् । अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरंधिम् ॥
स्वर रहित पद पाठअग्निः । सप्तिम् । वाजम्ऽभरम् । ददाति । अग्निः । वीरम् । श्रुत्यम् । कर्मनिःऽस्थाम् । अग्निः । रोदसी इति । वि । चरत् । सम्ऽअञ्जन् । अग्निः । नारीम् । वीरऽकुक्षिम् । पुरम्ऽधिम् ॥ १०.८०.१
ऋग्वेद - मण्डल » 10; सूक्त » 80; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 15; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 15; मन्त्र » 1
विषयः - अस्मिन् सूक्ते परमात्मा स्वस्तुतिकर्तारं जनं पापान्निवारयति मोक्षं च तस्मै प्रयच्छतीत्येवमादयो विषयाः सन्ति।
पदार्थः -
(अग्निः) ज्ञानप्रकाशस्वरूपः परमात्मा (सप्तिं वाजम्भरं ददाति) सरणं गमनशीलं प्राणम् “सप्तेः सरणस्य” [निरु० ९।३] वेगधारकं मनः “वाजम्भरं यो वाजं वेगं बिभर्ति तम्” [ऋ० १।६०।५ दयानन्दः] (अग्निः) परमात्मा (श्रुत्यं कर्मनिष्ठां वीरम्) श्रोतारं श्रवणशीलमाज्ञाकारिणं कर्मणि श्रद्धावन्तं पुत्रं ददाति (अग्निः) परमात्मा (रोदसी समञ्जन् विचरत्) रोधसी गृहस्थाश्रमस्य रोधकौ स्त्रीपुरुषौ परस्परं संयोजयन् व्याप्नोति (वीरकुक्षिं पुरन्धिं नारीम्) वीरः पुत्रः कुक्षौ यस्यास्तथाभूतं पुरं धारयित्रीं स्त्रियं करोति-सम्पादयति ॥१॥