अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 4
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
कति॑ दे॒वाः क॑त॒मे त आ॑स॒न्य उरो॑ ग्री॒वाश्चि॒क्युः पूरु॑षस्य। कति॒ स्तनौ॒ व्यदधुः॒ कः क॑फो॒डौ कति॑ स्क॒न्धान्कति॑ पृ॒ष्टीर॑चिन्वन् ॥
स्वर सहित पद पाठकति॑ । दे॒वा: । क॒त॒मे । ते । आ॒स॒न् । ये । उर॑: । ग्री॒वा: । चि॒क्यु: । पुरु॑षस्य । कति॑ । स्तनौ॑ । वि । अ॒द॒धु॒: । क: । क॒फो॒डौ । कति॑ । स्क॒न्धान् । कति॑ । पृ॒ष्टी: । अ॒चि॒न्व॒न् ॥२.४॥
स्वर रहित मन्त्र
कति देवाः कतमे त आसन्य उरो ग्रीवाश्चिक्युः पूरुषस्य। कति स्तनौ व्यदधुः कः कफोडौ कति स्कन्धान्कति पृष्टीरचिन्वन् ॥
स्वर रहित पद पाठकति । देवा: । कतमे । ते । आसन् । ये । उर: । ग्रीवा: । चिक्यु: । पुरुषस्य । कति । स्तनौ । वि । अदधु: । क: । कफोडौ । कति । स्कन्धान् । कति । पृष्टी: । अचिन्वन् ॥२.४॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 4
Translation -
How many and who those physical, and super-physical forces are who fasten the chest of the man and neck together? How many of them fix his breast and who does form his elbows? How many do join his ribs and shoulders?