अथर्ववेद - काण्ड 11/ सूक्त 10/ मन्त्र 16
सूक्त - भृग्वङ्गिराः
देवता - त्रिषन्धिः
छन्दः - त्र्यवसाना षट्पदा ककुम्मत्यनुष्टुप् त्रिष्टुब्गर्भा शक्वरी
सूक्तम् - शत्रुनाशन सूक्त
वा॒युर॒मित्रा॑णामिष्व॒ग्राण्याञ्च॑तु। इन्द्र॑ एषां बा॒हून्प्रति॑ भनक्तु॒ मा श॑कन्प्रति॒धामिषु॑म्। आ॑दि॒त्य ए॑षाम॒स्त्रं वि ना॑शयतु च॒न्द्रमा॑ युता॒मग॑तस्य॒ पन्था॑म् ॥
स्वर सहित पद पाठवा॒यु: । अ॒मित्रा॑णाम् । इ॒षु॒ऽअ॒ग्राणि॑ । आ । अ॒ञ्च॒तु॒ । इन्द्र॑: । ए॒षा॒म् । बा॒हून् । प्रति॑ । भ॒न॒क्तु॒ । मा । श॒क॒न् । प्र॒ति॒ऽधाम् । इषु॑म् । आ॒दि॒त्य: । ए॒षा॒म् । अ॒स्त्रम् । वि । ना॒श॒य॒तु॒ । च॒न्द्रमा॑: । यु॒ता॒म् । अग॑तस्य । पन्था॑म् ॥१२.१६॥
स्वर रहित मन्त्र
वायुरमित्राणामिष्वग्राण्याञ्चतु। इन्द्र एषां बाहून्प्रति भनक्तु मा शकन्प्रतिधामिषुम्। आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥
स्वर रहित पद पाठवायु: । अमित्राणाम् । इषुऽअग्राणि । आ । अञ्चतु । इन्द्र: । एषाम् । बाहून् । प्रति । भनक्तु । मा । शकन् । प्रतिऽधाम् । इषुम् । आदित्य: । एषाम् । अस्त्रम् । वि । नाशयतु । चन्द्रमा: । युताम् । अगतस्य । पन्थाम् ॥१२.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 10; मन्त्र » 16
Translation -
Let vayu the gases destroy the front points of the arrows of enemies. Let the electricity break their arms so that they could not fix the shafts on their bows. Aditya, the heat created by scientific means destroy their armament and let the weapon producing water bar the path of those enemies who are lingering.