Loading...
ऋग्वेद मण्डल - 8 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 4
    ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः देवता - अश्विनौ छन्दः - उष्णिक् स्वरः - ऋषभः

    आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा । उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये ॥

    स्वर सहित पद पाठ

    आ । वा॒म् । वाहि॑ष्ठः । अ॒श्वि॒ना॒ । रथः॑ । या॒तु॒ । श्रु॒तः । न॒रा॒ । उप॑ । स्तोमा॑न् । तु॒रस्य॑ । द॒र्श॒थः॒ । श्रि॒ये ॥


    स्वर रहित मन्त्र

    आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा । उप स्तोमान्तुरस्य दर्शथः श्रिये ॥

    स्वर रहित पद पाठ

    आ । वाम् । वाहिष्ठः । अश्विना । रथः । यातु । श्रुतः । नरा । उप । स्तोमान् । तुरस्य । दर्शथः । श्रिये ॥ ८.२६.४

    ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 4
    अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 4

    पदार्थः -
    नरा=हे सर्वस्य नेतारौ ! अश्विना=मन्त्रिनृपौ । वाम्=युवयोः । वाहिष्ठः=अतिशयेन वोढा । श्रुतः=विख्यातः । रथः । आयातु । युवाम् । तुरस्य=शीघ्रं स्तुतिं कुर्वतः पुरुषस्य । स्तोमान् । श्रिये । उपदर्शथः=शृणुतम् ॥४ ॥

    इस भाष्य को एडिट करें
    Top