Loading...
ऋग्वेद मण्डल - 8 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 5
    ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः देवता - अश्विनौ छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    जु॒हु॒रा॒णा चि॑दश्वि॒ना म॑न्येथां वृषण्वसू । यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    जु॒हु॒रा॒णा । चि॒त् । अ॒श्वि॒ना॒ । आ । म॒न्ये॒था॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । यु॒वम् । हि । रु॒द्रा॒ । पर्ष॑थः । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    जुहुराणा चिदश्विना मन्येथां वृषण्वसू । युवं हि रुद्रा पर्षथो अति द्विष: ॥

    स्वर रहित पद पाठ

    जुहुराणा । चित् । अश्विना । आ । मन्येथाम् । वृषण्वसू इति वृषण्ऽवसू । युवम् । हि । रुद्रा । पर्षथः । अति । द्विषः ॥ ८.२६.५

    ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 5
    अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 5

    पदार्थः -
    हे वृषण्वसू ! अश्विनौ ! जुहुराणा+चित्=कुटिलानपि पुरुषान् । मन्येथाम्=वित्तम् । ततः । रुद्रा=रुद्रौ=भयङ्करौ । युवम्=युवाम् । हि । द्विषः=द्वेषिणः । अति+पर्षथः=अतीत्य संक्लेशयतम् । पृषु हिंसासंक्लेशनयोः ॥५ ॥

    इस भाष्य को एडिट करें
    Top