ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 46
ऋषिः - वत्सः काण्वः
देवता - तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः
छन्दः - विराडार्षीगायत्री
स्वरः - षड्जः
श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे । राधां॑सि॒ याद्वा॑नाम् ॥
स्वर सहित पद पाठश॒तम् । अ॒हम् । ति॒रिन्दि॑रे । स॒हस्र॑म् । पर्शौ॑ । आ । द॒दे॒ । राधां॑सि । याद्वा॑नाम् ॥
स्वर रहित मन्त्र
शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे । राधांसि याद्वानाम् ॥
स्वर रहित पद पाठशतम् । अहम् । तिरिन्दिरे । सहस्रम् । पर्शौ । आ । ददे । राधांसि । याद्वानाम् ॥ ८.६.४६
ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 46
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 6
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 6
विषयः - अनयर्चा कृतज्ञता प्रकाश्यते ।
पदार्थः -
पूर्ववदिहापि सूक्तान्ते लब्धधनैर्ऋषिभिः कृतज्ञता प्रकाश्यते । सर्वैस्तद्वत्कर्त्तव्यमिति शिक्षते । यथा−अहमुपासकः । याद्वानाम्=यदूनाम्=मनुष्याणां मध्ये । यदुरिति मनुष्यनाम । यदव एव याद्वाः । स्वार्थिकस्तद्धितः । पर्शौ तिरिन्दिरे=पर्शोस्तिरिन्दिरात् । पर्शुर्व्यापकः । तिरिन्दिरः=तिरिन्द्रः=गूढेन्द्रः । सर्वव्यापकादपि गूढादिन्द्रात् । शतं सहस्रम्=अनन्तानि । राधांसि=पूज्यानि धनानि । आददे=गृह्णामि=प्राप्नोमीत्यर्थः ॥४६ ॥