Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 47
    ऋषिः - वत्सः काण्वः देवता - तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् । द॒दुष्प॒ज्राय॒ साम्ने॑ ॥

    स्वर सहित पद पाठ

    त्रीणि॑ । श॒तानि॑ । अर्व॑ताम् । स॒हस्रा॑ । दश॑ । गोना॑म् । द॒दुः । प॒ज्राय॑ । साम्ने॑ ॥


    स्वर रहित मन्त्र

    त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् । ददुष्पज्राय साम्ने ॥

    स्वर रहित पद पाठ

    त्रीणि । शतानि । अर्वताम् । सहस्रा । दश । गोनाम् । ददुः । पज्राय । साम्ने ॥ ८.६.४७

    ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 47
    अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 7

    पदार्थः -
    मह्यं परमात्मा बहूनि वस्तूनि ददाति । स यो वा आत्मानमेवोपास्ते, आत्मगुणान् विज्ञातुं यतते सोऽपि महाधनाढ्यो भवतीत्यनया शिक्षते । यथा−स परमदेवः । पज्राय=परमोद्योगिने । साम्ने=सामविदे= परमात्मस्तावकाय । मह्यम् । अर्वतामश्वानाम्= कर्मज्ञानान्तःकरणरूपाणां त्रिविधानामिन्द्रियाणां वा । त्रीणि शतानि । अपि च । गोनाम्=गवां ज्ञानकर्मेन्द्रियाणां द्विविधानां वा । दश सहस्रा=सहस्राणि । ददुर्ददौ=दत्तवान् । अतोऽहं तं स्तौमि ॥४७ ॥

    इस भाष्य को एडिट करें
    Top