ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 48
ऋषिः - वत्सः काण्वः
देवता - तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त् । श्रव॑सा॒ याद्वं॒ जन॑म् ॥
स्वर सहित पद पाठउत् । आ॒न॒ट् । क॒कु॒हः । दिव॑म् । उष्ट्रा॑न् । च॒तुः॒ऽयुजः॑ । दद॑त् । श्रव॑सा । याद्व॑म् । जन॑म् ॥
स्वर रहित मन्त्र
उदानट् ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् । श्रवसा याद्वं जनम् ॥
स्वर रहित पद पाठउत् । आनट् । ककुहः । दिवम् । उष्ट्रान् । चतुःऽयुजः । ददत् । श्रवसा । याद्वम् । जनम् ॥ ८.६.४८
ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 48
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 8
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 8
विषयः - तस्य व्यापकतामुदारताञ्च दर्शयति ।
पदार्थः -
स परमदेवः । ककुहः=परमोच्छ्रितः परमोदारोऽस्ति । पुनः । दिवम्=द्युलोकमभिव्याप्य । उदानट्=उदाश्नुते व्याप्नोति । पुनः । याद्वम्=उपासकं जनम् । श्रवसा=कीर्त्या । योजयित्वा । उष्ट्रान्=अभिलषितान् । वश कान्तौ अस्मादुष्ट्रशब्दस्य सिद्धिः । चतुर्युजः=चतुर्योगान् । ददत्=प्रयच्छन् वर्तते ॥४८ ॥