ऋग्वेद - मण्डल 8/ सूक्त 71/ मन्त्र 2
ऋषिः - सुदीतिपुरुमीळहौ तयोर्वान्यतरः
देवता - अग्निः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि व॑: प्रियजात । त्वमिद॑सि॒ क्षपा॑वान् ॥
स्वर सहित पद पाठन॒हि । म॒न्युः । पौरु॑षेयः । ईशे॑ । हि । वः॒ । प्रि॒य॒ऽजा॒त॒ । त्वम् । इत् । अ॒सि॒ । क्षपा॑ऽवान् ॥
स्वर रहित मन्त्र
नहि मन्युः पौरुषेय ईशे हि व: प्रियजात । त्वमिदसि क्षपावान् ॥
स्वर रहित पद पाठनहि । मन्युः । पौरुषेयः । ईशे । हि । वः । प्रियऽजात । त्वम् । इत् । असि । क्षपाऽवान् ॥ ८.७१.२
ऋग्वेद - मण्डल » 8; सूक्त » 71; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 11; मन्त्र » 2
अष्टक » 6; अध्याय » 5; वर्ग » 11; मन्त्र » 2
विषयः - N/A
पदार्थः -
हे सर्वशक्ते ! हे प्रियजात=जातानां प्राणिनां प्रिय ! वस्तवोपरि । पौरुषेयः । मन्युः=पुरुषसम्बन्धी क्रोधः । नहि+ ईशे । यतस्त्वमिदसि=त्वमेवासि । क्षपावान्=क्षमावान्= पृथिवीश्वरः ॥२ ॥