Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 13/ मन्त्र 27
    ऋषिः - गोतम ऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृद्गायत्री स्वरः - षड्जः
    4

    मधु॒ वाता॑ऽ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी॑र्नः स॒न्त्वोष॑धीः॥२७॥

    स्वर सहित पद पाठ

    मधु॑। वाताः॑। ऋ॒ता॒य॒ते। ऋ॒त॒य॒त इत्यृ॑तऽय॒ते। मधु॑। क्ष॒र॒न्ति॒। सिन्ध॑वः। माध्वीः॑। नः॒। स॒न्तु॒। ओष॑धीः ॥२७ ॥


    स्वर रहित मन्त्र

    मधु वाताऽऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः ॥


    स्वर रहित पद पाठ

    मधु। वाताः। ऋतायते। ऋतयत इत्यृतऽयते। मधु। क्षरन्ति। सिन्धवः। माध्वीः। नः। सन्तु। ओषधीः॥२७॥

    यजुर्वेद - अध्याय » 13; मन्त्र » 27
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा वाता वसन्ते नो मधु ऋतायते सिन्धवो मधु क्षरन्ति ओषधीर्नो माध्वीः सन्तु, तथा वयमनुतिष्ठेम॥२७॥

    पदार्थः -
    (मधु) मधुरं यथा स्यात् तथा (वाताः) वायवः (ऋतायते) ऋतमुदकमिवाचरन्ति। अत्र वचनव्यत्ययेन बहुवचनस्थान एकवचनम्। ऋतमित्युदकनामसु पठितम्॥ (निघं॰१।१२) न छन्दस्यपुत्रस्य [अष्टा॰७.४.३५] इतीत्वाभावः। अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः (मधु) (क्षरन्ति) वर्षन्ति (सिन्धवः) नद्यः समुद्रा वा। सिन्धव इति नदीनामसु पठितम्॥ (निघं॰१।१३) (माध्वीः) माध्व्यो मधुरगुणयुक्ताः। अत्र ऋत्व्यवास्त्व्य॰ [अष्टा॰६.४.१७५] इति मधुशब्दादणि यणादेशनिपातः (नः) अस्मभ्यम् (सन्तु) (ओषधीः) ओषधयः। [अयं मन्त्रः शत॰७.५.१.४ व्याख्यातः]॥२७॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यदा वसन्त आगच्छति, तदा पुष्पादिसुगन्धयुक्ता वाय्वादयः पदार्था भवन्ति, तस्मिन् भ्रमणं पथ्यं वर्त्तत इति वेद्यम्॥२७॥

    इस भाष्य को एडिट करें
    Top