Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 79
    ऋषिः - सप्तऋषय ऋषयः देवता - अग्निर्देवता छन्दः - आर्षी जगती स्वरः - निषादः
    7

    स॒प्त ते॑ऽअग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तऽऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑। स॒प्त होत्राः॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रापृ॑णस्व घृ॒तेन॒ स्वाहा॑॥७९॥

    स्वर सहित पद पाठ

    स॒प्त। ते॒। अ॒ग्ने॒। स॒मिध॒ इति॑ स॒म्ऽइधः॑। स॒प्त। जि॒ह्वाः। स॒प्त। ऋष॑यः। स॒प्त। धाम॑। प्रि॒याणि॑। स॒प्त। होत्राः॑। स॒प्त॒ऽधा। त्वा॒। य॒ज॒न्ति॒। स॒प्त। योनीः॑। आ। पृ॒ण॒स्व॒। घृ॒तेन॑। स्वाहा॑ ॥७९ ॥


    स्वर रहित मन्त्र

    सप्त तेऽअग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्व घृतेन स्वाहा ॥


    स्वर रहित पद पाठ

    सप्त। ते। अग्ने। समिध इति सम्ऽइधः। सप्त। जिह्वाः। सप्त। ऋषयः। सप्त। धाम। प्रियाणि। सप्त। होत्राः। सप्तऽधा। त्वा। यजन्ति। सप्त। योनीः। आ। पृणस्व। घृतेन। स्वाहा॥७९॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 79
    Acknowledgment

    अन्वयः - हे अग्ने विद्वन्! यथाग्नेः सप्त समिधः सप्त जिह्वाः सप्तर्षयः सप्त प्रियाणि धाम सप्त होत्राश्च सन्ति, तथा ते तव सन्तु। यथा विद्वांसस्तमग्निं सप्तधा यजन्ति, तथा त्वा यजन्तु। यथाऽयमग्निर्घृतेन स्वाहा सप्त योनीरापृणते तथा त्वमापृणस्व॥७९॥

    पदार्थः -
    (सप्त) सप्त संख्याकानि गायत्र्यादीनि छन्दांसि (ते) तव (अग्ने) तेजस्विन् विद्वन् (समिधः) प्रदीपकाः (सप्त, जिह्वाः) काल्यादयः सप्त संख्याका ज्वालाः (सप्त, ऋषयः) प्राणादयः पञ्च देवदत्तधनञ्जयौ च (सप्त, धाम) जन्मनामस्थानधर्मार्थकाममोक्षाख्यानि धामानि (प्रियाणि) (सप्त, होत्राः) सप्त ऋत्विजः (सप्तधा) सप्तभिः प्रकारैः (त्वा) त्वाम् (यजन्ति) संगच्छन्ते (सप्त, योनीः) चितीः (आ) (पृणस्व) सुखी भव (घृतेन) आज्येन (स्वाहा)॥७९॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथेन्धनैरग्निर्वर्धते तथा विद्यादिशुभगुणैः सर्वे मनुष्या वर्धन्ताम्। यथा विद्वांसोऽग्नौ घृतादिकं हुत्वा जगदुपकुर्वन्ति, तथा वयमपि कुर्याम॥७९॥

    इस भाष्य को एडिट करें
    Top