Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 29
    ऋषिः - गोतम ऋषिः देवता - यज्ञो देवता छन्दः - भुरिक् त्रिष्टुप् स्वरः - धैवतः
    2

    यू॒प॒व्र॒स्काऽउ॒त ये यू॑पवा॒हाश्च॒षालं॒ येऽअ॑श्वयू॒पाय॒ तक्ष॑ति। ये चार्व॑ते॒ पच॑नꣳ स॒म्भर॑न्त्यु॒तो तेषा॑म॒भिगू॑र्त्तिर्नऽइन्वतु॥२९॥

    स्वर सहित पद पाठ

    यू॒प॒व्र॒स्का ति॑ यूपऽव्र॒स्काः। उ॒त। ये। यू॒प॒वा॒हा इति॑ यूपऽवा॒हाः। च॒षाल॑म्। ये। अ॒श्व॒यू॒पायेति॑ अश्वऽयू॒पाय॑। तक्ष॑ति। ये। च॒। अर्व॑ते। पच॑नम्। स॒म्भर॒न्तीति॑ स॒म्ऽभर॑न्ति। उ॒तोऽइत्यु॒तो। तेषा॑म्। अ॒भिगू॑र्त्ति॒रित्य॒भिऽगू॑र्त्तिः। नः॒। इ॒न्व॒तु॒ ॥२९ ॥


    स्वर रहित मन्त्र

    यूपव्रस्काऽउत ये यूपवाहाश्चषालँयेऽअश्वयूपाय तक्षति । ये चार्वते पचनँ सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥


    स्वर रहित पद पाठ

    यूपव्रस्का ति यूपऽव्रस्काः। उत। ये। यूपवाहा इति यूपऽवाहाः। चषालम्। ये। अश्वयूपायेति अश्वऽयूपाय। तक्षति। ये। च। अर्वते। पचनम्। सम्भरन्तीति सम्ऽभरन्ति। उतोऽइत्युतो। तेषाम्। अभिगूर्त्तिरित्यभिऽगूर्त्तिः। नः। इन्वतु॥२९॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 29
    Acknowledgment

    अन्वयः - ये यूपव्रस्का उतापि ये यूपवाहा अश्वयूपाय चषालं तक्षति, ये चार्वते पचनं सम्भरन्ति, उतो ये प्रयतन्ते तेषामभिगूर्त्तिर्न इन्वतु॥२९॥

    पदार्थः -
    (यूपव्रस्काः) यूपस्य स्तम्भस्य छेदकाः (उत) अपि (ये) (यूपवाहाः) ये यूपं वहन्ति ते (चषालम्) यूपावयवम् (ये) (अश्वयूपाय) अश्वस्य बन्धनार्थाय स्तम्भाय (तक्षति) तक्षन्ति तनूकुर्वन्ति। अत्र वचनव्यत्ययेनैकवचनम् (ये) (च) (अर्वते) अश्वाय (पचनम्) पाकसाधनम् (सम्भरन्ति) सम्यग्धरन्ति पुष्णन्ति वा (उतो) अपि (तेषाम्) (अभिगूर्त्तिः) अभ्युद्यमः (नः) अस्मान् (इन्वतु) व्याप्नोतु प्राप्नोतु॥२९॥

    भावार्थः - ये शिल्पिनोऽश्वबन्धनादीनि काष्ठविशेषजानि वस्तूनि निर्मिमते, ये च वैद्या अश्वादीनामौषधानि सम्भारांश्च संगृह्णन्ति, ते सदोद्यमिनः सन्तोऽस्मान् प्राप्नुवन्तु॥२६॥

    इस भाष्य को एडिट करें
    Top