Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 37
    ऋषिः - मधुच्छन्छा ऋषिः देवता - विद्वांसो देवता छन्दः - गायत्री स्वरः - षड्जः
    3

    के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्याऽअपे॒शसे॑। समु॒षद्भि॑रजायथाः॥३७॥

    स्वर सहित पद पाठ

    के॒तुम्। कृ॒ण्वन्। अ॒के॒तवे॑। पेशः॑। म॒र्याः॒। अ॒पे॒शसे॑। सम्। उ॒षद्भि॒रित्यु॒षत्ऽभिः॑। अ॒जा॒य॒थाः॒ ॥३७ ॥


    स्वर रहित मन्त्र

    केतुङ्कृण्वन्नकेतवे पेशो मर्याऽअपेशसे । समुषद्भिरजायथाः ॥


    स्वर रहित पद पाठ

    केतुम्। कृण्वन्। अकेतवे। पेशः। मर्याः। अपेशसे। सम्। उषद्भिरित्युषत्ऽभिः। अजायथाः॥३७॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 37
    Acknowledgment

    अन्वयः - हे विद्वन्! यथा मर्या अपेशसे पेशोऽकेतवे केतुं कुर्वन्ति, तैरुषद्भिः सह प्रज्ञां श्रियं च कृण्वन् सँस्त्वं समजायथाः॥३७॥

    पदार्थः -
    (केतुम्) प्रज्ञाम्। केतुरिति प्रज्ञानामसु पठितम्॥ (निघ॰३।९) (कृण्वन्) कुर्वन् (अकेतवे) अविद्यमानप्रज्ञाय जनाय (पेशः) हिरण्यम्। पेश इति हिरण्यनामसु पठितम्॥ (निघ॰१।२) (मर्याः) मनुष्याः (अपेशसे) अविद्यमानं पेशः सुवर्णं यस्य तस्मै नराय (सम्) सम्यक्। (उषद्भिः) य उषन्ति हविर्दहन्ति तैर्यजमानैः (अजायथाः)॥३७॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। त एव आप्ता ये स्वात्मवदन्येषामपि सुखमिच्छन्ति, तेषामेव संगेन विद्याप्राप्तिरविद्याहानिः, श्रियो लाभो, दरिद्रताया विनाशश्च भवति॥३७॥

    इस भाष्य को एडिट करें
    Top