Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 33
    ऋषिः - मधुच्छन्दा ऋषिः देवता - अग्निर्देवता छन्दः - ब्राह्मी पङ्क्ति, स्वरः - पञ्चमः
    2

    स॒मु॒द्रोऽसि वि॒श्वव्य॑चाऽअ॒जोऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यो वाग॑स्यै॒न्द्रम॑सि॒ सदोऽ॒स्यृत॑स्य द्वारौ॒ मा मा॒ सन्ता॑प्त॒मध्व॑नामध्वपते॒ प्र मा॑ तिर स्व॒स्ति मे॒ऽस्मिन् प॒थि दे॑व॒याने॑ भूयात्॥३३॥

    स्वर सहित पद पाठ

    स॒मु॒द्रः। अ॒सि॒। वि॒श्वव्य॑चा॒ इति॑ वि॒श्वऽव्य॑चाः। अ॒जः। अ॒सि॒। एक॑पा॒दित्येक॑ऽपात्। अहिः॑। अ॒सि॒। बु॒ध्न्यः᳖। वाक्। अ॒सि॒। ऐ॒न्द्रम्। अ॒सि॒। स॒दः॑। अ॒सि॒। ऋत॑स्य। द्वा॒रौ॒। मा। मा॒। सम्। ता॒प्त॒म्। अध्व॑नाम्। अ॒ध्व॒प॒त॒ इत्य॑ध्वऽपते। प्र। मा॒। ति॒र। स्व॒स्ति। मे॒। अ॒स्मिन्। प॒थि। दे॒व॒यान॒ इति॑ देव॒ऽयाने॑। भू॒या॒त् ॥३३॥


    स्वर रहित मन्त्र

    समुद्रोसि विश्वव्यचाऽअजो स्येकपादहिरसि बुध्न्यो वागस्यैन्द्रमसि सदोस्यृतस्य द्वारौ मा मा सन्ताप्तमध्वनामध्वपते प्र मातिर स्वस्ति मेस्मिन्पथि देवयाने भूयान्मित्रस्य मा॥


    स्वर रहित पद पाठ

    समुद्रः। असि। विश्वव्यचा इति विश्वऽव्यचाः। अजः। असि। एकपादित्येकऽपात्। अहिः। असि। बुध्न्यः। वाक्। असि। ऐन्द्रम्। असि। सदः। असि। ऋतस्य। द्वारौ। मा। मा। सम्। ताप्तम्। अध्वनाम्। अध्वपत इत्यध्वऽपते। प्र। मा। तिर। स्वस्ति। मे। अस्मिन्। पथि। देवयान इति देवऽयाने। भूयात्॥३३॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 33
    Acknowledgment

    अन्वयः - यथेश्वरः समुद्रो विश्वव्यचा अस्ति, स एकपादजोऽस्ति, अहिर्बुध्न्योऽसि। हे अध्वपदे! यथैन्द्रसदोऽस्ति यथा स ऋतस्य द्वारौ संतापयति, तथा मा संतापयेः। यथा चास्मिन् देवयाने पथि स्वस्ति भूयात् तथा त्वं सततं प्रयतस्व॥३३॥

    पदार्थः -
    (समुद्रः) समुद्द्रवन्ति भूतानि यस्मात् सः (असि) (विश्वव्यचाः) यथा विश्वस्मिन् व्यचो व्याप्तिर्यस्यास्ति तथा (अजः) यः कदाचिन्न जायते (असि) (एकपात्) एकस्मिन् पादे विश्वं यस्यास्ति (अहिः) समस्तविद्यासु व्यापनशीलः (असि) (बुध्न्यः) बुध्नेऽन्तरिक्षे भवः। बुध्नमन्तरिक्षं भवति। (निरु॰१०।४४) (वाक्) यथा वक्ति सा (असि) (ऐन्द्रम्) परमैश्वर्य्यस्येदम् (असि) (सदः) सीदन्ति यस्मिंस्तत् (असि) (ऋतस्य) सत्यस्य कारणस्य व्यवहारस्य वा (द्वारौ) बाह्याभ्यन्तरस्थे मुखे (मा) माम् (मा) निषेधे (सम्) सम्यगर्थे (ताप्तम्) तपेः, अत्र लिङर्थे लुङ्। (अध्वनाम्) यथा विद्याधर्मशिल्पमार्गाणाम् (अध्वपते) धर्मव्यवहारमार्गपालयितः (प्र) प्रकृष्टार्थे (मा) माम् (तिर) तारय (स्वस्ति) सुखम् (मे) मम (अस्मिन्) प्रत्यक्षे (पथि) मार्गे (देवयाने) यथा विदुषां गमनागमनाधिकरणे तथा (भूयात्) भवतु॥३३॥

    भावार्थः - अत्रोपमालङ्कारः। यथा कृपायमाण ईश्वरोऽस्मिन् संसारे सर्वेषां जीवानां शिक्षादिकर्मसु प्रवर्त्तते तथा विद्वद्भिरपि वर्त्तितव्यम्। यथेश्वरस्य जगत्कारणस्य जीवानां वाऽनादित्वाज्जन्मराहित्येनाविनाशित्वं वर्त्तते, तथा स्वस्य बोध्यं यथा परमेश्वरस्य कृपोपासनासृष्टिविद्यापुरुषार्थैः सहैव वर्त्तमानानां मनुष्याणां विद्वन्मार्गप्राप्तिस्तत्र सुखं च जायते तथा नेतरेषामिति॥३३॥

    इस भाष्य को एडिट करें
    Top