अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 10
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
अथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑। पौरु॑षे॒येऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑ ॥
स्वर सहित पद पाठअथो॒ इति॑ । सर्व॑म् । श्वाप॑दम् । मक्षि॑का । तृ॒प्य॒तु॒ । क्रिमि॑: । पौरु॑षेये । अधि॑ । कुण॑पे । र॒दि॒ते । अ॒र्बु॒दे॒ । तव॑ ॥११.१०॥
स्वर रहित मन्त्र
अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः। पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥
स्वर रहित पद पाठअथो इति । सर्वम् । श्वापदम् । मक्षिका । तृप्यतु । क्रिमि: । पौरुषेये । अधि । कुणपे । रदिते । अर्बुदे । तव ॥११.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 10
विषय - राजा और प्रजा के कर्त्तव्य का उपदेश।
पदार्थ -
(अथो) और भी (सर्वम्) सब (श्वापदम्) कुत्ते के से पैरवाले [सियार आदि हिंसकों का समूह], (मक्षिका) मक्खी और (क्रिमिः) कीड़ा (पौरुषेये) पुरुषों की (कुणपे अधि) लोथों के ऊपर, (अर्बुदे) हे अर्बुदि ! [शूर सेनापति राजन्] (तव) तेरे (रदिते) तोड़ने-फोड़ने पर (तृप्यतु) तृप्त होवें ॥१०॥
भावार्थ - शूर सेनापति के विध्वंस करने पर शत्रुओं की लोथों से हिंसक पशु-पक्षी पेट भरें ॥१०॥
टिप्पणी -
१०−(अथो) अपि च (सर्वम्) (श्वापदम्) शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु दीर्घो वाच्यः। वा० पा० ६।३।१३७। दीर्घः। शुन इव पदं यस्य सः श्वापदः, ततः समूहार्थे-अण्। हिंस्रपशूनां शृगालादीनां समूहः (मक्षिका) अ० ११।२।२। कीटभेदः (तृप्यतु) (क्रिमिः) (पौरुषेये) अ० ७।१०५।१। पुरुष−ढञ्। पुरुषसम्बन्धिनि (अधि) उपरि (कुणपे) क्वणेः सम्प्रसारणं च। उ० ३।१४३। क्वण शब्दे-कपन्, सम्प्रसारणम्, यद्वा कुण शब्दोपकरणयोः-कपन्। मृतदेहे। शवे। अन्यत् पूर्ववत्-म० ७ ॥