Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 3
त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो। स नो॑ रास्व सु॒वीर्य॑म् ॥
स्वर सहित पद पाठत्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ स: । न॒: । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥१०८.३॥
स्वर रहित मन्त्र
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो। स नो रास्व सुवीर्यम् ॥
स्वर रहित पद पाठत्वाम् । शुष्मिन् । पुरुऽहूत । वाजऽयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो ॥ स: । न: । रास्व । सुऽवीर्यम् ॥१०८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 3
विषय - परमेश्वर की प्रार्थना का उपदेश।
पदार्थ -
(शुष्मिन्) हे महाबली ! (पुरुहूत) हे बहुत प्रकार बुलाये गये ! (शतक्रतो) हे सैकड़ों कर्मोंवाले ! [परमेश्वर] (वाजयन्तम्) बलवान् बनानेवाले (त्वाम्) तुझको (उप) आदर से (ब्रुवे) मैं बुलाता हूँ, (सः) सो तू (नः) हमें (सुवीर्यम्) बड़ा वीरपन (रास्व) दे ॥३॥
भावार्थ - मनुष्य महाबली परमेश्वर से प्रार्थना करके अनेक उपकारी कर्म करते हुए अपना वीरत्व बढ़ावें ॥३॥
टिप्पणी -
३−(त्वाम्) (शुष्मिन्) महाबलिन् (पुरुहूत) बहुविधाहूत (वाजयन्तम्) बलवन्तं कुर्वाणम् (उप) पूजायाम् (ब्रुवे) वदामि (शतक्रतो) बहुकर्मन् (सः) स त्वम् (नः) अस्मभ्यम् (रास्व) देहि (सुवीर्यम्) महावीरत्वम् ॥