Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 46/ मन्त्र 2
सूक्त - प्रचेता
देवता - दुःष्वप्ननाशनम्
छन्दः - त्र्यवसाना पञ्चपदा शक्वरीगर्भा जगती
सूक्तम् - दुःष्वप्ननाशन
वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः। अन्त॑कोऽसि मृ॒त्युर॑सि॒। तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दुः॒ष्वप्न्या॑त्पाहि ॥
स्वर सहित पद पाठवि॒द्म । ते॒ । स्व॒प्न॒ । ज॒नित्र॑म् । दे॒व॒ऽजा॒मी॒नाम् । पु॒त्र: । अ॒सि॒ । य॒मस्य॑ । कर॑ण: । अन्त॑क: । अ॒सि॒ । मृ॒त्यु: । अ॒सि॒ । तम् । त्वा॒ । स्व॒प्न॒ । तथा॑ । सम् । वि॒द्म॒ । स: । न॒: । स्व॒प्न॒ । दु॒:ऽस्वप्न्या॑त् । पा॒हि॒ ॥४६.२॥
स्वर रहित मन्त्र
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः। अन्तकोऽसि मृत्युरसि। तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुःष्वप्न्यात्पाहि ॥
स्वर रहित पद पाठविद्म । ते । स्वप्न । जनित्रम् । देवऽजामीनाम् । पुत्र: । असि । यमस्य । करण: । अन्तक: । असि । मृत्यु: । असि । तम् । त्वा । स्वप्न । तथा । सम् । विद्म । स: । न: । स्वप्न । दु:ऽस्वप्न्यात् । पाहि ॥४६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 46; मन्त्र » 2
विषय - स्वप्न के गुणों का उपदेश।
पदार्थ -
(स्वप्न) हे स्वप्न (ते) तेरे (जनित्रम्) जन्मस्थान को (विद्म) हम जानते हैं, तू (देवजामीनाम्) इन्द्रियों की गतियों का (पुत्रः) शुद्ध करनेवाला और (यमस्य) नियम का (करणः) बनानेवाला (असि) है। तू (अन्तकः) अन्त करनेवाला (असि) है, और तू (मृत्युः) मरण करनेवाला (असि) है। (स्वप्न) हे स्वप्न ! (तम्) उस (त्वा) तुझको (तथा) वैसा ही (सम्) अच्छे प्रकार (विद्म) हम जानते हैं, (सः) सो तू (स्वप्न) हे स्वप्न ! (नः) हमें (दुःस्वप्न्यात्) बुरी निद्रा में उठे कुविचार से (पाहि) बचा ॥२॥
भावार्थ - जो मनुष्य सदा धर्म कर्म में लगे रहते हैं, उनके हृदय में सोते समय भी कुविचार नहीं आते ॥२॥
टिप्पणी -
२−(विद्म) जानीमः (ते) तव (स्वप्न) म० १। हे निद्रे (जनित्रम्) अ० १।२५।१। जन्मस्थानम् (देवजामीनाम्) नियो मिः। उ० ४।४३। इति या प्रापणे−मि, यस्य जः। इन्द्रियाणां जामीनां गतीनाम् (पुत्रः) अ० १।११।५। पुनातीति यः सः। पावकः। शोधकः (असि) (यमस्य) नियमस्य (करणः) करोतेः−ल्यु। कर्ता (अन्तकः) तत्करोतीत्युपसंख्यानम्। वा० पा० ३।१।२६। इति अन्त, णिच्−ण्वुल्। अन्तयतीति अन्तकः। अन्तकरः (असि) (मृत्युः) मरणकर्ता (तम्) तादृशम् (त्वा) त्वाम् (स्वप्न) (तथा) तेन प्रकारेण (सम्) सम्यक् (सः) स त्वम् (नः) अस्मान् (दुःस्वप्न्यात्) अ० ४।९।६। दुःस्वप्न−यत्। दुर् दुष्टेषु स्वप्नेषु भवात् कुविचारात् ॥