अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 21
व्यवात्ते॒ ज्योति॑रभू॒दप॒ त्वत्तमो॑ अक्रमीत्। अप॒ त्वन्मृ॒त्युं निरृ॑ति॒मप॒ यक्ष्मं॒ नि द॑ध्मसि ॥
स्वर सहित पद पाठवि । अ॒वा॒त् । ते॒ । ज्योति॑: । अ॒भू॒त् । अप॑ । त्वत् । तम॑: । अ॒क्र॒मी॒त् । अप॑ । त्वत् । मृ॒त्युम् । नि:ऽऋ॑तिम् । अप॑ । यक्ष्म॑म् । नि । द॒ध्म॒सि॒ ॥१.२१॥
स्वर रहित मन्त्र
व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्। अप त्वन्मृत्युं निरृतिमप यक्ष्मं नि दध्मसि ॥
स्वर रहित पद पाठवि । अवात् । ते । ज्योति: । अभूत् । अप । त्वत् । तम: । अक्रमीत् । अप । त्वत् । मृत्युम् । नि:ऽऋतिम् । अप । यक्ष्मम् । नि । दध्मसि ॥१.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 21
विषय - मनुष्य कर्त्तव्य का उपदेश।
पदार्थ -
[हे मनुष्य !] (ते) तेरे लिये (ज्योतिः) ज्योति (वि) विविध प्रकार (अवात्) आई है और (अभूत्) उपस्थित हुई है, (त्वत्) तुझसे (तमः) अन्धकार (अप अक्रमीत्) चल दिया है। (त्वत्) तुझसे (मृत्युम्) मृत्यु को और (निर्ऋतिम्) अलक्ष्मी को (अप) अलग और (यक्ष्मम्) राजरोग को (अप) अलग (नि दध्मसि) हम धरते हैं ॥२१॥
भावार्थ - मनुष्य वेदद्वारा अज्ञान का नाश करके दुःखों और क्लेशों से छूट कर नीरोग होकर आनन्द भोगें ॥२१॥
टिप्पणी -
२१−(वि) विविधम् (अवात्) वा गतिगन्धनयोः-लङ्। अगच्छत् (ते) तुभ्यम् (ज्योतिः) प्रकाशः (अभूत्) उपस्थितमभूत् (त्वत्) त्वत्तः (तमः) अन्धकारः। अबोधः (अप अक्रमीत्) अपक्रान्तमभूत् (अप) पृथक्-करणे (त्वत्) (मृत्युम्) प्राणनाशकं दुःखम् (निर्ऋतिम्) कृच्छ्रापत्तिम् (अप) (यक्ष्मम्) राजरोगम् (नि दध्मसि) निदध्मः। नीचैः स्थापयामः ॥