अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 24
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम्। विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥
स्वर सहित पद पाठइन्द्र॑ । ज॒हि । पुमां॑सम् । या॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् । विऽग्री॑वास: । मूर॑ऽदेवा: । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥४.२४॥
स्वर रहित मन्त्र
इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम्। विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥
स्वर रहित पद पाठइन्द्र । जहि । पुमांसम् । यातुऽधानम् । उत । स्त्रियम् । मायया । शाशदानाम् । विऽग्रीवास: । मूरऽदेवा: । ऋदन्तु । मा । ते । दृशन् । सूर्यम् । उत्ऽचरन्तम् ॥४.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 24
विषय - राजा और मन्त्री के धर्म का उपदेश।
पदार्थ -
(इन्द्र) हे परम ऐश्वर्यवाले राजा ! (यातुधानम्) दुःखदायी (पुमांसम्) पुरुष को (उत) और (मायया) कपट से (शाशदानाम्) अति तीक्ष्णस्वभाववाली (स्त्रियम्) स्त्री को (जहि) नष्ट कर दे। (मूरदेवाः) मूढ़ [निर्बुद्धि] व्यवहारवाले (विग्रीवासः) ग्रीवारहित होकर (ऋदन्तु) नष्ट हो जावें, (ते) वे (उच्चरन्तम्) उदय होते हुए (सूर्यम्) सूर्य को (मा दृशन्) न देखें ॥२४॥
भावार्थ - राजा उपद्रवी स्त्री-पुरुषों को कठिन दण्ड देकर नष्ट कर दे, जिससे वे उदय होते हुए सूर्य के समान फिर न उभरें ॥२४॥
टिप्पणी -
२४−(इन्द्र) (जहि) (पुमांसम्) पुरुषम् (यातुधानम्) पीडाप्रदम् (उत) अपि (स्त्रियम्) (मायया) कपटेन (शाशदानाम्) अ० १।१०।१। अत्यर्थं तीक्ष्णस्वभावाम् (विग्रीवासः) असुगागमः। विच्छिन्नग्रीवाः (मूरदेवाः) अ० ८।३।२। मूढव्यवहारयुक्ताः (ऋदन्तु) वैदिकधातुः। नश्यन्तु (ते) पूर्वोक्ताः (मा दृशन्) मा द्राक्षुः (सूर्यम्) (उच्चरन्तम्) उद्यन्तम् ॥