अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - अतिथिः, विद्या
छन्दः - साम्न्यनुष्टुप्
सूक्तम् - अतिथि सत्कार
तस्मा॑ उ॒द्यन्त्सूर्यो॒ हिङ्कृ॑णोति संग॒वः प्र स्तौ॑ति।
स्वर सहित पद पाठतस्मै॑ । उ॒त्ऽयन् । सूर्य॑: । हिङ् । कृ॒णो॒ति॒ । स॒म्ऽग॒व: । प्र । स्तौ॒ति॒ ॥१०.४॥
स्वर रहित मन्त्र
तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति।
स्वर रहित पद पाठतस्मै । उत्ऽयन् । सूर्य: । हिङ् । कृणोति । सम्ऽगव: । प्र । स्तौति ॥१०.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 6;
पर्यायः » 5;
मन्त्र » 4
विषय - अतिथि के सत्कार का उपदेश।
पदार्थ -
(तस्मै) उस [गृहस्थ] के लिये (उद्यन्) उदय होता हुआ (सूर्यः) सूर्य (हिङ्) तृप्ति कर्म (कृणोति) करता है, (संगवः) किरणों से संगतिवाला [दोपहर से पहिले सूर्य] (प्र) अच्छी भाँति (स्तौति) स्तुति करता है। (मध्यन्दिनः) मध्याह्नकाल (उत् गायति) उद्गीथ [वेदगान] करता है, (अपराह्णः) तीसरा पहर (निधनम्) निधि (प्रति) प्रत्यक्ष (हरति) प्राप्त कराता है और (अस्तंयन्) डूबता हुआ [सूर्य, निधि प्रत्यक्ष प्राप्त कराता है]। [उसके लिये] (भूत्याः) वैभव का, (प्रजायाः) प्रजा.... म० १-३ ॥४, ५॥
भावार्थ - मनुष्य विद्वान् अतिथियों के सत्सङ्ग से पुरुषार्थ करके सब काल में आनन्द करता है ॥४, ५॥
टिप्पणी -
४, ५−(तस्मै) गृहस्थाय (उद्यन्) उद्गच्छन् (सूर्यः) (संगवः) गोरद्धितलुकि। पा० ५।४।९२। सम्+गो-टच्। गोभिः किरणैः सङ्गतो मध्याह्नपूर्वः सूर्यः (मध्यन्दिनः) अ० ४।११।१२। मध्याह्नः (अपराह्णः) पूर्वापराधरो०। पा० २।२।१। इति समासः। राजाहःसखिभ्यष्टच्। पा० ५।४।९१। टच्। अह्नोऽह्न एतेभ्यः। पा० ५।४।८८। अह्नादेशः। अह्नोऽदन्तात्। पा० ८।४।७। णत्वम्। रात्राह्नाहाः पुंसि। पा० २।४।२९। इति पुंस्त्वम्। दिनस्य तृतीयभागः (अस्तंयन्) अदर्शनं प्राप्नुवन् सूर्यः। अन्यत् पूर्ववत् ॥