अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 4
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत। तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये ॥
स्वर सहित पद पाठद्वाद॑श । प्र॒ऽधय॑: । च॒क्रम् । एक॑म् । त्रीणि॑ । नभ्या॑नि । क: । ऊं॒ इति॑ । तत् । चि॒के॒त॒ । तत्र॑ । आऽह॑ता: । त्रीणि॑ । श॒तानि॑ । श॒ङ्कव॑: । ष॒ष्टि: । च॒ । खीला॑: । अवि॑ऽचाचला: । ये ॥८.४॥
स्वर रहित मन्त्र
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत। तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥
स्वर रहित पद पाठद्वादश । प्रऽधय: । चक्रम् । एकम् । त्रीणि । नभ्यानि । क: । ऊं इति । तत् । चिकेत । तत्र । आऽहता: । त्रीणि । शतानि । शङ्कव: । षष्टि: । च । खीला: । अविऽचाचला: । ये ॥८.४॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 4
Subject - Jyeshtha Brahma
Meaning -
One is the wheel, twelve segments of the felly, three segments of the nave. Who would know that wheel of existence? Three hundred and sixty are the spokes fixed therein, and as many spikes, all fixed and firm, immovable. He, Brahma, would know that.