अथर्ववेद - काण्ड 20/ सूक्त 141/ मन्त्र 2
यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थः॒ समो॑कसा। यदा॑दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥
स्वर सहित पद पाठयत् । इन्द्रे॑ण । स॒ऽरथ॑म् । या॒थ: । अ॒श्वि॒ना॒ । यत् । वा॒ । वा॒युना॑ । भव॑थ: । सम्ऽओ॑कसा ॥ यत् । आ॒दि॒त्येभि॑: । ऋ॒भुऽभि॑: । स॒ऽजोष॑सा । यत् । वा॒ । विष्णो॑: । वि॒ऽक्रम॑णेषु । तिष्ठ॑थ: ॥१४१.२॥
स्वर रहित मन्त्र
यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा। यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥
स्वर रहित पद पाठयत् । इन्द्रेण । सऽरथम् । याथ: । अश्विना । यत् । वा । वायुना । भवथ: । सम्ऽओकसा ॥ यत् । आदित्येभि: । ऋभुऽभि: । सऽजोषसा । यत् । वा । विष्णो: । विऽक्रमणेषु । तिष्ठथ: ॥१४१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 141; मन्त्र » 2
Subject - Prajapati
Meaning -
Whether you move with the cosmic force on the same chariot or abide with the wind in the same region, or you move across the sun’s zodiacs or with the cosmic makers, or you move and abide with the vibrance of the omnipresent, wherever you be, pray come to us too.