Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 50/ मन्त्र 1
ह॒तं त॒र्दं स॑म॒ङ्कमा॒खुम॑श्विना छि॒न्तं शिरो॒ अपि॑ पृ॒ष्टीः शृ॑णीतम्। यवा॒न्नेददा॒नपि॑ नह्यतं॒ मुख॒मथाभ॑यं कृणुतं धा॒न्याय ॥
स्वर सहित पद पाठह॒तम् । त॒र्दम् । स॒म्ऽअ॒ङ्कम् । आ॒खुम् । अश्वि॑ना । छि॒न्तम् । शिर॑: । अपि॑ । पृ॒ष्टी: । शृ॒णी॒त॒म् । यवा॑न् । न । इत् । अदा॑न् । अपि॑ । न॒ह्य॒त॒म्। मुख॑म् । अथ॑ । अभ॑यम् । कृ॒णु॒त॒म् । धा॒न्या᳡य ॥५०.१॥
स्वर रहित मन्त्र
हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम्। यवान्नेददानपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥
स्वर रहित पद पाठहतम् । तर्दम् । सम्ऽअङ्कम् । आखुम् । अश्विना । छिन्तम् । शिर: । अपि । पृष्टी: । शृणीतम् । यवान् । न । इत् । अदान् । अपि । नह्यतम्। मुखम् । अथ । अभयम् । कृणुतम् । धान्याय ॥५०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 50; मन्त्र » 1
Subject - Grain Protection
Meaning -
O farming men and women, Ashvins, drive off the crop destroyer, the burrowing mouse and other crop damagers, break their head, break their back. See that they do not destroy the barley crop. Shut their mouth, and thus eliminate the fear of damage to the crop.