Loading...
ऋग्वेद मण्डल - 10 के सूक्त 68 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 68/ मन्त्र 2
    ऋषिः - अयास्यः देवता - बृहस्पतिः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय । जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥

    स्वर सहित पद पाठ

    सम् । गोभिः॑ । आ॒ङ्गि॒र॒सः । नक्ष॑माणः । भगः॑ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ । जने॑ । मि॒त्रः । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥


    स्वर रहित मन्त्र

    सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय । जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ ॥

    स्वर रहित पद पाठ

    सम् । गोभिः । आङ्गिरसः । नक्षमाणः । भगःऽइव । इत् । अर्यमणम् । निनाय । जने । मित्रः । न । दम्पती इति दम्ऽपती । अनक्ति । बृहस्पते । वाजय । आशून्ऽइव । आजौ ॥ १०.६८.२

    ऋग्वेद - मण्डल » 10; सूक्त » 68; मन्त्र » 2
    अष्टक » 8; अध्याय » 2; वर्ग » 17; मन्त्र » 2

    भावार्थ - जसा एखादा धनवान धनात रमण करतो तसा विद्वानाचा शिष्य विद्येत रमण करतो व आपल्या स्तुतीद्वारे जगाचा स्वामी असलेल्या परमात्म्याला आपल्यामध्ये साक्षात करतो. अशा खऱ्या प्रशंसकाला परमात्मा मोक्षासाठी प्रेरित करतो. ॥२॥

    इस भाष्य को एडिट करें
    Top